पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७६ अथर्वसंहिताभाष्ये ततो विराजः अधि विराजमेव अधिकर1णीकृत्य पुरुषः अन्यः प्रजापतिः सर्वभूतेन्द्रियपुरुषसमष्ट्यात्माभवत्2 निष्पन्नः । श्रूयते हि । “स मानसीन3 आत्मा जनानाम्" इति [तै आ० ३.११.१] । मानसीनः मनसा निष्पन्न इत्यर्थः । स वैराजः पुरुषो जातः प्रादुर्भूतमात्रः अत्यरिच्यत स्वयमेव आत्मानम अत्यरेचयत् । कर्मकर्तरि रूपम् । अ- नेकधा भावलक्षणं स्वरूपातिरेकम अभजत । भूतेन्द्रियादीनि असृजद् इत्यर्थः । श्रूयते हि । “असतोधि मनोसृज्यत । मनः प्रजापतिम् अ- सृजत । प्रजापतिः प्रजा असृजत" इति [तै ब्रा०२.२.९.१०] । पश्चात् भूतग्रामसृष्टेरन्ते भूमिम् अत्यरेचयत् । सामर्थ्यात् कर्मकर्तृ- भावोत्र निवर्तते । एवम् आकाशादिपृथिव्यन्तानां तत्त्वानां सृष्टि- रुक्ता भवति । अथो भूमेरनन्तरं पुरः पूर्यन्ते सप्तभिर्धानुभिरिति पुरः शरीराणि सुरनरतिर्यगादीनां स्थावराणां च अत्यरेचयत् अतिरिक्तान्य- करोत् । पुर इति । द्वितीयाबहुवचनं शस् । छान्दसं विभक्त्यु- दात्तत्वम् ॥ अध्यात्मपक्ष एव अन्योर्थः । अग्रे विराट् ब्रह्माण्ड- रूपो देहः तस्माद् आदिपुरुषाद् उत्पन्नः । विराजः अधि विराड्देहस्यो- परि तमेव देहम् अधिकरणं कृत्वा पुरुषः तद्देहाभिमानी कश्चित् पुमान् अजायत । योयं सर्ववेदान्तवेद्यः परमात्मा स एव स्वकीयमायया विराड्- देहं ब्रह्माण्डरूपं सृष्ट्वा तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानिदेवतात्मा जीवोभवत् । एतच्च आथर्वणिका उत्तरतापनीये स्पष्टम् आमनन्ति । “स “वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव” इति [नृ उ ता १.९] । स जातः विरा- टपुरुषः अत्यरिच्यत अतिरिक्तोभूत् । देवत्तिर्यङ्मनुष्यादिरूपोभूत् । पश्चात् दे- वादिजीवभावाद् ऊर्ध्वं भूमि ससर्जेति क्रियाध्याहारः । अथो भूमि- सृष्टेरनन्तरं तेषां जीवानां पुरः शरीराणि ससर्ज । एवं भूतसृष्टिः पि- ण्डसृष्टिश्च प्रतिपादिता ॥ IS अधिकरणकृत्य पुरुपः for अधिकरणीकृत्य पुरुषः, 28 मानीयत for °त्माभवत् 66 3S मानसीने.