पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू०६.] ५५० एकोनविंशं काण्डम्। २७५ चतुर्थी॥ विराडग्रे समभवद् विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद् भूमिमथो पुरः ॥ ९ ॥ विराट् । अग्रे। सम् । अभवत् । विऽराजः । अधि । पुरुषः । सः। जातः । अति । अरिच्यत । पश्चात् । भूमिम् । अथो इति । पुरः॥९॥ पूर्वं यस्मात् पुरुषाद् ब्राह्मणादिसृष्टिरुक्ता तस्य सृष्टिरत्रोच्यते । अग्रे सृष्ट्यादौ विराट् विविधं राजन्ति वस्तूनि यस्मिन्निति स विराड् नाम पुरुषः समभवत् । “सहस्रबाहुः पुरुषः” इत्यादिना उपवर्णिताद् आ- दिपुरुषाद् विराट्संज्ञकः पुरुषोजायत । “तस्माद् विराट् अजायत" इति [तै आ°३.१२.२] शाखान्तरे विराजः आदिपुरुषाद् उत्पतिः समा- स्नायते । तथा मानवे शास्त्रे स्मर्यते । द्विधा कृत्वात्मनो देहम् अर्धेन पुरुषोभवत् । अर्धेन नारी तस्यां च विराजम असृजत प्रभुः ॥ इति [म स्मृ०१.३२] । विराजः अधि । अधिशब्दः पञ्चम्यानुवादी। तस्माद् विराजः पुरुषः1 अन्यः पुरुषोजायत । अत्र वाजसनेयकम् । “विराजो अधि पूरुष इत्येषा वै सा विराट् । एतस्या 2एवैतद् विराजो यज्ञं पुरुषं जनयति" इति [श ब्रा० १३.६.१.२] । स च तृतीयः पुरुषः यज्ञात्मा जातः उत्पन्नमात्र एव अत्यरिच्यत अतिरिक्त आसीत् । भूमिम् भूम्यादीन् सर्वान् लो- कान् पश्चात् पश्चाद्भागे अथो अपि च पुरः पुरस्तात् । ५ "पूर्वा- धरावराणाम् असि पुरधवश्चैषाम्" इति असि प्रत्ययः । तत्संनियोगेन पू- र्वशब्दस्य पुर् आदेशः । स पुरुषो जातमात्र एव भूम्यादीन् लोकान् पश्चात् पुरस्ताच्च व्याप्य अतिक्रान्तवान् ॥ अध्यात्मपक्षे । अग्रे सृष्ट्यादौ विराट् विविधं राजन्ति वस्तूनि यस्मिन्निति स विराट् मनःसं- ज्ञकः प्रजापतिः सहस्रबाहुः पुरुष इति प्रकृताद् महापुरुषाद् अजायत । १८ पुरुषः IS अन्यः पुरुषः पुरुषः for पुरुषः अन्यः पुरुषो. 25 एव तद् lor एवैतद्.