पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७४ अथर्वसंहिताभाष्ये अत्र मुखशब्देन वागिन्द्रियम् उच्यते । “ब्राह्मणोस्य मुखमासीत्" इत्य- त्र सर्वं मुखमण्डलं विवक्षितम् । “अग्निर्वाग् भूवा मुखं प्राविशत्" इति ऐतरेयकश्रुतिः [ऐ आ°२.४.२] । वाचः इन्द्रसंबन्धं तैत्तिरीयाः स- मामनन्ति । “वाग् वै पराच्य1व्याकृ2तावदत् । ते देवा इन्द्रम अब्रुवन् । “इमां ना वाचं व्याकुर्विति । ताम् इन्द्रो मध्यतोवक्रम्य व्याकरोत् । "तस्माद् इयं व्याकृत3 वाग् उद्यते " इति [तै० सं० ६.४.७.३] । अस्य पुरुषस्य प्राणात् । अत्र प्राणशब्देन प्राणेन्द्रियं विवक्ष्यते । तस्माद् वायुर- जायत । “वायुः प्राणो भूत्वा नासिके प्राविशत" इति हि श्रुत्यन्तरम [ऐ आ०२.४.२] । अत्र सर्वत्र स्वस्वकारणप्रवेशेन तस्माद् उत्पत्तिर्वि- वक्षितेति मन्तव्यम् ॥ अध्यात्मपक्षेपि अयम् अर्थः समानः । तृतीया ॥ नाभ्या आसीदन्तरिक्षं शीर्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात् तो लोकाँ अकल्पयन् ॥ ४ ॥ नाभ्याः । आसीत् । अन्तरिक्षम् । शीर्णः । द्यौः । सम् । अवर्तत । पत्ऽभ्याम् । भूमिः । दिशः । श्रोत्रात् । तथा । लोकान् । अकल्पयन्॥८॥ अत्रापि उत्त्तरानुसारिणः प्रश्ना ऊह्याः । अस्य यज्ञपुरुषस्य नामिशि- रःपादेभ्यः अन्तरिक्षद्युभूमयस्त्रयो लोकाः समभवन् । [शीर्णः ] ।शी- र्षश्छन्दसि” इति शिरसः शीर्षन् आदेशः । “अल्लोपोनः” इति अका- रलोपः । पद्भ्याम् इति । “पद्दन्नोमास्” इति पद्भावः । श्रो- त्रात अस्य पुरुषस्य श्रोत्रेन्द्रियाद् दिशः प्राच्यादय आसन् । “दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्” इति हि श्रुत्यन्तरम् [ऐ आ०२.४.२] । उ- क्तार्थोपसंहारश्चतुर्थश्चरणः । तथा उक्तेन प्रकारेण उक्तरीत्या लोकान् अ- न्तरिक्षादीन् । उपलक्षणम् एतत् । ब्राह्मणक्षत्रियादीन् अकल्पयन अस्माद् यज्ञपुरुषात् कल्पितवन्तः उत्पादितवन्तः साध्या नाम देवाः ॥ अध्या- त्मपक्षे प्रजापतेः प्राणरूपा देवा इतीयान् विशेषः ॥ 46 PJ शीणों।. "शीपणः। 18' पराच्च. 'S' व्यावृता. व्याकृत्य.