पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰१. सू०६.] ५५० एकोनविंशं काण्डम्। २७३ तिविशिष्टः पुरुषः अस्य मुखाद् उत्पन्न इत्यर्थः । योयं राजन्यः क्षत्रि- यजातिविशिष्टः पुरुषः [स तस्य यज्ञपुरुषस्य बाहू बाहुद्वयम् अभवत् ] । [यद् वैश्यः वैश्यजातम्] इति यद् अस्ति [ तद् अस्य यज्ञपुरुषस्य मध्यम् मध्याङ्गम् अभवत् ] । मध्यभागाद् वैश्य उत्पन्न इत्यर्थः । पद्भ्याम् पा- दाभ्यां शूद्रः अजायत उत्पन्नः ॥ इत्थं च मुखादिभ्यो ब्राह्मणादीनाम्1 उ- पत्तिं तैत्तिरीयाः समामनन्ति । “स मुखतस्त्रिवृतं निरमि2मीत । ब्राह्म- णो मनुष्याणाम्” इति । " उरसो बाहुभ्यां पञ्चदशं निरमिमीत । राजन्यो मनुष्याणाम्" इति । “मध्यतः सप्तदशं निरमिमीत । वैश्यो मनुष्याणाम्" इति । तत्र “अन्नधानाद्ध्यसृज्यन्त" [सं०७.१.१.५] इति वाक्य- शेषेण शरीरस्य मध्यभाग एव विवक्षितः । मध्यभागः ऊर्वोरुपलक्षकः । अत एव प्रश्नः किम् ऊरू इति युज्यते । तत्रैव प्रश्ने “एकविंशं निर- मिमीत । शूद्रो मनुष्याणाम्" इति च । अतः प्रश्नोत्तरे उभे अपि त- त्परत्वेन योजनीये ॥ अध्यात्मपक्षेपि एषोर्थः समानः ॥ द्वितीया ॥ चन्द्रमा मनसो जातश्चक्षोः सूर्यों अजायत । मुखादिन्द्रश्चाग्निश्च प्राणाद् वायुरजायत ॥ ७ ॥ चन्द्रमाः । मनसः । जातः । चक्षोः । सूर्यः । अजायत । मुखात् । इन्द्रः । च । अग्निः । च । प्रीणात् । वायुः । अजायत ॥ ७ ॥ अस्मिन् उत्तरस्मिन्नपि मन्त्रे उत्तरकथनेन तदनुसारिणः प्रश्ना ऊह- नीयाः । अत एव कतिधा व्यकल्पयन्निति सामान्यप्रश्नो ब्रह्मवादिभिः कृतः । यज्ञात्मनः पुरुषस्य मनसः सकाशात् चन्द्रमाः [चन्द्रम आह्ला- दं माति निर्मिमीत इति चन्द्रमाः सोमो जातः । “चन्द्रमा मनो भू- त्वा हृदयं प्राविशत्" इति हि श्रुत्यन्तरम् [ऐ आ०२.४.२] । चक्षोः चक्षुषः ।अन्त्यलोपश्छान्दसः । सूर्यः अजायत । “आ- दित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्” इति हि श्रुतिः [ऐ आ २.४.२] । इ- न्द्रश्च अग्निश्च । परस्परसमुच्चयार्थों चकारौ । तौ देवौ मुखात जातौ । 13 ब्राह्मणानाम्. 28 निरमिमीते. ३५