पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७२ अथर्वसंहिताभाष्ये सृष्टिराम्नास्यते । “यत् पुरुषेण हविषा देवा यज्ञम अतन्यत" [१०] इति पुरुषेण साधनेन यज्ञसृष्टिश्च आम्नास्यते । तं पुरुषं निमित्तीकृत्य प्रश्नोतररूपेण ब्राह्मणादिसृष्टिं वक्तुम् अत्र ब्रह्मवादिनां प्रश्ना उच्यन्ते । यत् यदा पुरुषम् यज्ञं व्यदधुः विशेषेण अकुर्वन् साध्या नाम देवाः व- सवश्च तदा तं पुरुषं कतिधा कतिभिः प्रकारैः व्यकल्पयन् विविधं क- ल्पितवन्तः । एष सामान्यरूपः प्रश्नः । "इति च” इति संख्यासं- ज्ञकात् कतिशब्दात् "संख्याया विधार्थे धा" इति धा प्रत्ययः । मुखं किम् इत्यादयो विशेषप्रश्नाः । अस्य यज्ञात्मनः पुरुषस्य किं वस्तु मु- खम् आसीत् । किं वस्तु बाहू । किं वस्तु ( ऊरू । किं वस्तु] पादा उच्यते । बाहूरुपादवयात्मना किं वस्तु कथ्यते । "लोपः शा- कल्यस्य इति वकारलोपः। किम् इति सामान्यरूपत्वाद् नपुं- सकलिङ्गता एकवचनता च ॥ अध्यात्मपक्षे यत् यदा पुरुषम् वैराज व्यदधुः मनःसंज्ञकप्रजापतेर्विराजः प्राणरूपा देवाः संकल्पेन उत्पादितवन्तः तदानी कतिधा व्यकल्पयन् इत्यादि पूर्वेण समानम् ॥ [इति ] एकोनविंशे काण्डे प्रथमेनुवाके षष्ठं सूक्तम् ॥ ब्राह्मणोस्य मुखम् आसीद्” इति सूक्तस्य पुरुषमेधे उत्सृज्यमान- पुरुषपश्वनुमन्त्रणे शनैश्चरग्रहदेवत्यहविराज्यहोमे च पूर्वसूक्तेन सह उक्तो विनियोगः । " तत्र प्रथमा। ब्राह्मणोस्य मुखमासीद् बाहू राजन्योडभवत् । मध्यं तदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥ ६ ॥ ब्राह्मणः । अस्य । मुखम् । आसीत् । बाहू इति । राजन्यः । अभवत् । मध्यम् । तत् । अस्य । यत् । वैश्यः । पत्ऽभ्याम् । शूद्रः । अजायत ॥६॥ “कतिधा व्यकल्पयन्” इति सामान्य प्रश्नस्य “चन्द्रमा मनसो जातः" इत्यादिना उत्तरं भविष्यति । मुखादिविशेषप्रश्नानाम् उत्तरम् अनया उ- च्यते । अस्य यज्ञात्मनः पुरुषस्य ब्राह्मणो मुखम् आसीत् । ब्राह्मणजा-