पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७१ [अ०१. सू०६.] ५५० एकोनविंशं काण्डम् । चतुर्थी ॥ पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम् । उतामृतत्वस्येश्वरो यद्न्येनाभवत् सह ॥ ४ ॥ पुरुषः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च । भाव्यम्। उत । अमृतऽत्वस्य । ईश्वरः । यत् । अन्येन । अभवत् । सह ॥ ४ ॥ यद् भूतम् अतीतं जगत् यच्च भव्यम् भविष्यद् यदपि इदं प्रत्यक्षेण दृश्यमानं व्यक्तं स्थावरजङ्गमात्मकं वर्तमानं जगत् तत् सर्वं पुरुष एव । यथा अस्मिन् कल्पे वर्तमानाः प्राणिदेहाः सर्वेपि पुरुषस्यावयवाः तथैव अतीतागामिनोः कल्पयोरिति1 द्रष्टव्यम् । अथ वा एतत् सर्व पुरुष एव पुरुषस्यैवा2यं विवर्तः ॥ उत अपि च अयं पुरुषः अमृतत्वस्य देवत्वस्यापि ईश्वरः स्वामी । देवानामपि ईश्वर इति यावत् । यत् किंचिद् भूतम् अन्नेन अदनीयेन भोग्येन सहाभवत् भवति तस्यापीश्वरः । अयोनि- जानां देवानाम् अन्नरसपरिणामानां मर्त्यादीनां च ईश्वर इति यावत् । यज्ञानुष्ठातुर्नारायणस्य यज्ञनिर्वत्यै सार्वात्म्यम् । जगत्कारणस्य सूत्रात्मन- स्तु स्वाभाविकम् इतीयान् विशेषः । शिष्टं समानम् ॥ पञ्चमी॥ यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्य किं बाहू किमूरू पादा उच्येते ॥ ५ ॥ यत् । पुरुषम् । वि । अदधुः । कतिऽधा । वि। अकल्पयन् । मुखम् । किम् । अस्य । किम् । बाहू इति । किम् । ऊरू इति । पादौ । उच्यते इति ॥ ५॥ "विराड् अग्रे समभवद् विराजो अधि पूरुषः"[९] इति पुरुष-

  • KRV" *. We with A B CDRŠ DE. २C RB °मृतत्व. Wourith

ADSK kv De. So we with A B D R S. C यदन्य. K KV यदन्ने'. De यद्- न्ये changed to यदने . P अन्येन 1. We with PJ. ५ A B C D E KIV Dव्यं- Ty. We with R. PJ 1: 1. We with Ⓡ. 18 कल्पयोर्द्रष्टव्यम्. 23 पुरुषस्येवायं. ४