पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये पादौस्य विश्वा भूतानि त्रिपादस्यामृतx दिवि ॥ ३ ॥ तावन्तः । अस्य । महिमानः । ततः । ज्यायान् । च । पुरुषः । पादः । अस्य । विश्वा । भूतानि । त्रिऽपात् । अस्य । अमृतम् । दिवि ॥३॥ यद् इदं देवतिर्यङ्मनुष्यात्मकं जगद् यावद् अस्ति तावान् सर्वोपि अस्य यज्ञानुष्ठातुः पुरुषस्य महिमा महत 1कर्म स्वकीयसामर्थविशेषः । ता- वन्तो महिमान इति पूजायां बहुवचनम् सृष्टिभेदापेक्षया वा । ततो म- हिम्नोपि महिमाधारः पुरुषः ज्यायान् प्रवृद्धः अतिशयितः । अस्य पा- दश्चतुर्थः विश्वा विश्वानि भूतानि भवनवन्ति स्थावरजङ्गमात्मकानि । व्या- वर्तत इति शेषः । अस्य त्रिपात् पादत्रयम् अमृतम् अमरणधर्मकं सत् [दिवि] द्युलोके स्वर्गलोके वर्तते ॥ अध्यात्मपक्षे यद् इदं देवतिर्यङ्मनुष्या- त्मकम् अनीतानागतवर्तमानम् अस्तिरूपं जगद् यावद् अस्ति तावान् सर्वोपि अस्य पुरुषस्य महिमा । इदं तु तस्य न वास्तवं स्वरूपम् । वास्तवस्तु पुरुषः । अतो महिम्नो यथोक्ता मामयलक्षणात्2 कार्यव- र्गात् ज्यायान् वृद्धतरः। वृद्धशब्दस्य ईयसुनि ज्यादेशः। नै- तावान् इति मन्तव्यं कथम् इत्यत आह । विश्वा विश्वानि सर्वाणि भू- तानि भवनवन्ति कालत्रयवर्तीनि प्राण्यप्राणिजातानि अस्य पुरुषस्य पादः चतुर्थाशः । अस्य 3अवशिष्टं त्रिपात् अंशत्रयात्मकं स्वरूपम् अमृतम् अमरणधर्मकं विनाशरहितं सत् दिवि द्योतनात्मके स्वप्रकाशे स्वरूपे अ- वतिष्ठते । तुरीय एव पादो जननमरणयुक्तः । तथा च तैत्तिरीया उत्त- रनारायणे समामनन्ति । "अ4जायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम्" इति [तै आ०३.१३.१] । यद्यपि परब्रह्मणः परि- च्छेदाभावाद् अंशचतुष्टयं न निर्देष्टुं5 शक्यं तथापि विश्वम् इदं ब्रह्मरूपापे- क्षया अत्यल्पम् इति विवक्षित्वा पादत्वोपन्यासः । त्रिपादिति । त्रयः पादाः अस्य “संख्यासुपूर्वस्य” इति लोपे “द्वित्रिभ्यां पाइन" इति उत्तरपदान्तोदात्तत्वम् ॥ 18' कर्मा. 25 यथोक्तान् मामर्त्यलक्षणान्.. विशिष्ट for अवशिष्ट. माना. न निर्दष्टमशक्यं. 45 सजाय-