पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू०६.] ५५० एकोनविंशं काण्डम् । २६९ क्रान्तवान् ॥ अध्यात्मपक्षे सोयम् उदीरितस्वरूप आदिपुरुषः त्रिभिः प- द्भिः पादैः अंशैः संसारस्पर्शरहितैः द्याम् दिवं द्योतनात्मकं स्वप्रकाश- स्वरूपम् आरोहत आरूढवान् आस्थितवान् । यद्यपि “सत्यं ज्ञानम् अ- न्तं ब्रह्म" [तै आ°१.१] इत्याम्नांतस्य परब्रह्मणः इयत्ताया अभावाद् अंशचतुष्टयं न निरूपयितुं शक्यं तथापि जगद् इदं ब्रह्मस्वरूपापेक्षया अ- त्यल्पम् 1इति विवक्षितुं पादत्वोपन्यासः । स पुरुषः संसारस्पर्शरहितः ज्ञा- नबहलस्वरूपो द्याम् आरोहत् अज्ञानकार्यात् संसाराद् बहिर्भूतः सन् अत्रत्यैर्गुणदोषैरस्पृष्टः स्वस्वरूपे वर्तत इत्यर्थः । अस्य पुरुषस्य योयं पादैः लेशश्चतुर्थः सोयम् इह जगति पुनरभवत् सृष्टिसंहाराभ्यां पुनःपुनरावि- र्भवति । अस्य सर्वस्य जगतः परमात्मलेशत्वं भगवताप्युक्तम् । विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ॥ इति [भ.गी. १०.४२.] । तथा तेन प्रकारेण तुरीयेण पादेन स पु- रुषो विष्वङ् विष्वगञ्चनः अशनानशने अनु स्थावरजङ्गमात्मकं जगद् अ- भिलक्ष्य व्यक्रामत् । अथ वा चेतनाचेतनात्मकम् उभयविधं जगद् यथा स्यात् तथा पुरुषः स्वयमेव 2द्विविधो भूत्वा व्याप्तवान् इति । यद्येकस्मिन् कल्पे एकस्य पादस्य जननमरणयुक्तसर्वभूतात्मकत्वं तर्हि कल्पान्तरेषु पा- दत्रयमध्ये एकैकस्य सर्वभूतात्मकत्वं संभवति । तथा च सति अंशचतुष्ट- यात्मकस्य परब्रह्मणः सर्वजगदात्मकत्वसंभवेन सांसारिकसुखदुःखादिद्वन्द्वसं- स्पर्शो भविष्यति इत्येषा शङ्का अंशत्रयेण द्याम् आरोहत इह पुनरभक्त इत्यनेन अपाक्रियते । तथा हि अंशत्रयात्मकं ब्रह्म सर्वदा स्वप्रतिष्ठं सं- सारस्पर्शरहितं सच्चित्सुखलक्षणं वर्तते । एको्शस्तु पुनःपुनर्जगदात्मना वि- वर्तत इति । यः पूर्वकल्पे जगदात्मा वि3वृत्तः स एव कल्पान्तरेपि स- र्वभूतात्मना विवर्तते नान्योंश इति ॥ तृतीया ॥ तावन्तो अस्य महिमानस्ततो ज्यायांश्च पूरुषः । १ A B D अस्य महिमा . We witli K KRCSVDe P. २८ पुरुषः. We with A DR. KÄVDS. 28 विविधे. 38' निवृत्तः. 18 अपि for इति.