पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६ अथर्वसंहिताभाष्ये षोदरादिः । सर्वप्राणिदेहावस्थितः पूर्णो वा सहस्राक्षः सहस्रपात् । एवंरूपो यो वर्तते स पुरुषः भूमिम् । उपलक्षणम् एतद् अबादीना भूतानाम् । सकलभूतकार्यब्रह्माण्डं 1तदन्तर्गतान् भूम्यादीन् विकारान् वा विश्वतः सर्वतो वृत्वा मृदिव घटादीन् व्याप्य दशाङ्गुलम् दशाङ्गुलिप्रमा- णं 2देशम् अत्यतिष्ठत् अतिक्रम्य अवस्थितः । दशाङ्गुलम् इति उपलक्ष- णम् । ब्रह्माण्डाद् बहिरपि सर्वतो व्याप्य अवस्थितः । एकेनांशेन ब्र- ह्याण्डं व्याप्य दशभिरंशैः कार्यप्रपञ्चासंस्पृष्टः स्वप्रतिष्ठो वर्तत इत्यर्थः ॥ द्वितीया ॥ त्रिभिः पद्भिर्द्यामरोहत् पादस्येहाभवत् पुनः । तथा व्य क्रामद् विष्वङशनानशने अनु ॥ २ ॥ त्रिऽभिः । पतऽभिः । द्याम् । अरोहत। पात् । अस्य । इह । अभवत् । पुनः । तथा । वि । अक्रामत् । विष्वङ् । अशनानशने इत्यशनऽअनशने । अनु ॥ २॥ सोयं यज्ञानुष्ठाता नारायणपुरुषः त्रिभिः पद्भिः पादैः । पद्दन्नो मास्" इत्यादिना पादशब्दस्य पद्भावः । द्याम् दिवं स्वर्गलोकम् आ- रोहत् आरूढवान् आक्रान्तवान् । [अस्य] पुरुषस्य पादः चतुर्थः इह भू- लोके पुनरभवत् । पुनः3पुनराविर्भवति प्रकाशते । पादचतुष्टयेन सर्वलोक- व्याप्तिमेव दर्शयति । तथा तेन उक्तेन प्रकारेण अशनानशने अश्नातीति अ- शनम् । “कृत्यल्युटों बहुलम्" इति कर्तरि ल्युट् । अ- नशनम् अनश्नत् अशनानशने वस्तुनी अनु । लक्षणार्थे अनुः कर्मप्रवचनीयः । अशना मनुष्यतिर्यगादयः । अनशना4 देववृक्षाद- यः । तान् अभिलक्ष्य विष्वङ् सर्वतोञ्चनः विश्वव्यापनः व्यकामत् वि- १ KV मारोहत्पादो° with Sayama,' मरोहत्पादोस्ये changed fironm मरोहत्पादःस्ये'. We wilu ABCDRV De TAS 27°. Xone of our authorities have fast- कुश'. ४ A BK KC D REV D. शनानंशने. PJ अशनानशने इत्यशनऽशने ।. अ- शनानशने इत्यशन अनशने। ५P आरोहत्. ६PPJ पादस्य } for पात् । अस्य । TS त्वदंतर्गतान्. 25 दशम्, S' पुनःपुनःपुनरा. “पइन्नो- 48 अनशाभ्य,