पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तः। R"सं- [अ०१.सू० ६.] ५५० एकोनविंशं काण्डम्। तत्र सूक्ते प्रथमा ॥ सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात् । स भूमि विश्वतो वृत्वात्य॑तिष्ठद् दशाङ्गुलम् ॥ १ ॥ सहस्रऽबाहुः । पुरुषः । सहस्रऽअक्षः । सहस्रेऽपात । सः। भूमिम् । विश्वतः । वृत्वा । अति । अतिष्ठत् । दशऽअङ्गुलम् ॥१॥ पुरुषसंज्ञापेक्षितावरणस्थानीयो देहविशेषो यज्ञानुष्ठातुर्नारायणपुरुषस्य रू- प्यते । यथा परोक्षस्याग्नेः प्रत्यक्षैरग्निभिः स्तवः तद्वत् परोक्षस्यादिपुरुष- स्य लौकिकैः सहस्रबाहुत्वं 1बह्वक्षिपादत्वं च उच्यते । सहस्रबाहुः सह- स्रशब्दस्य उपलक्षणावाद् अनन्तैर्बाहुभिर्युक्तः सहस्राक्षः बहुभिरक्षिभिरुपे- तः। “बहुव्रीहौ सक्थ्यक्ष्णोः” इति षच् समासान्तः । सति शिष्टः समासान्तः स्वरः प्रवर्तते । सहस्रपात् अनेक चरणः। सं- ख्यासुपूर्वस्य” इति पादस्य लोपः समासान्तः ५ । एवंरूपो यः पु- रुषः यज्ञानुष्ठाता नारायणाख्यः पुरुषो वर्तते स पुरुषः भूमिम् सप्तसमु-2 द्रद्वीपां विश्वतः सर्वतो वृत्वा महिम्ना व्याप्य दशाङ्गुलम् दशाङ्गुलि3 प्र- माणं यस्येति । आहीर्यस्य ठकः “अध्यर्धपूर्वद्विगोः” इति लुक् । "तत्पुरुषस्याङ्गुले; संख्याव्ययादेः” इति अच् समासान्त । अत्र दशाङ्गुलशब्देन हृदयाकाशम् उच्यते । तद् अत्यतिष्ठन् । पूर्वं हृदयाका- शे परिच्छिन्नस्वरूपः सन् स्वानुष्ठितक्रतुसामर्थ्यात् परिच्छिन्नाकारतां प- रित्यज्य सर्वातिशायिस्वरूपोभवद् इत्यर्थः ॥ अध्यात्मपक्षे सर्वप्राणिसमष्टि- रूपः सूत्रामा प्रतिपाद्यते । सहस्रबाहुः ये व्यष्टिभूतसर्वप्राणिनां बाह- वस्ते सर्वे सूत्रात्मदेहान्तःपातित्वात् तदीया एवेति सहस्रबाहुत्वम् । एवम् अक्षिषु पादेष्वपि योजनीयम् । यद्वा सर्वत्र बाह्वादिसाध्यबहुकार्यसंभ- वात् तेषां सहस्रावव्यपदेशः । अत एव इमम् 4अर्थम् अभिप्रेत्य अन्यत्रा- म्नायते । “विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात्" इति [ऋ० १०.४१.३] । पुरुषः पुरि देहे शेत इति पुरुषः । 18 बहक्षिकापादत्वं. 23 सप्तमुद्रद्वीपां. 35 दशांगुलिः. 45 किममर्थम्. एवंरूपो यः पु- अत्र