पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६६ 66 66 अथर्वसंहिताभाष्ये येत् । प्रयच्छतु इति यावत् । ४ चुद प्रेरणे । अस्माण्ण्यन्ताल्लेटि 'छन्दस्युभयथा? इति लेटि आर्धधातुकत्वात् “णेरनिटि” इति णिलो- प: । "लेटोडाटौ” इति अडागमः ॥ [इति ] प्रथमेनुवाके पञ्चमं सूक्तम् ॥ 'सहस्रबाहुः पुरुषः” इति सूक्तद्वयं पुरुषमेधे क्रतौ पुरुषपश्वनुमन्त्रणे विनियुक्तम् । पुरुषमेधोश्वमेधवञ्चैत्र्याः पुरस्तात्" इति प्रक्रम्य वैताने सूत्रितम् । “स्नातम् अलंकृतम् उत्सृज्यमानं सहस्रबाहुः पुरुषः[१९.६] केन पार्ष्णी[१०.२] इत्यनुमन्त्रयते” इति [वै०७.२] ॥ तथा एतस्य सूक्तद्वयस्य शनैश्चरग्रहदेवत्यहविराज्यहोमे समिदाधानोप- स्थानयोश्च विनियोगः । “अथाज्यभागान्ते विषासहिम्[१७.१] इत्यादि- त्याय हविषो हुत्वाज्यं जुहुयात् समिध आधायोपतिष्ठते” इति प्रक्रम्य शान्तिकल्पे सूत्रितम् । “सहस्रबाहुः पुरुषः[ १९.६] केन पार्ष्णी [१०. २] प्राणाय नमः[११.४] इति शनैश्चराय" इति [शा क°१५.] ॥ सौवर्णभूमिदानेपि एतत् सूक्तद्वयम् आज्यहोमे विनियुक्तम् । रोहिण्याम् उपोषितो ब्रह्मा" इति प्रक्रम्य परिशिष्टेभिहितम् । "रभ्याथ जुहुयात् कामसूतं कालसूक्तं पुरुषसूक्तम् इत्यथ सुवर्णमयीं भू- "मिम् इत्यादि" [प°१०.१] ॥ सर्वातिशायित्वसर्वभूतात्मकत्वकामेन नारायणाख्येन पुरुषेण अनुष्ठितस्य पुरुषमेधक्रतोः प्रतिपादकत्वात् जगत्कारणस्य आदिनारायणपुरुषस्य प्रतिपा- दकत्वाद् वा एतत् पुरुषसूक्तम् इति उच्यते । अतः अस्य सूक्तस्य द्वि- विधोर्थः आधि1यज्ञिक एकः 2आद्यात्मिकोपरः । पुरुषमेधविधायकं वाजस- नेय3कब्राह्मण एवम् आम्नायते । “पुरुषो ह वै नारायणोकामयत4 । "अति5तिष्ठेयं सर्वाणि भूतानि अहमेवेदं सर्व स्याम् इति । स एतं पु- 'रुषमेधं पञ्चरात्रं यज्ञक्रतुम् अपश्यत् । तम् आहरत् । तेनायजत । 'नेनेष्ट्वात्यतिष्ठत् सर्वाणि भूतानि । इदं सर्वम् अभवत्" इति [श° प०१३.६.१.१] ॥ "अथ "अन्वा- 6 “ 38यिक +8 कामयतातिष्ठेयं for 'कामयत । 25 आध्यात्म 18' यज्ञक. अतितिष्ठेयं.