पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू°५.] ५४९ एकोनविंशं काण्डम्। २६५ स्पतेः । व1श इति अध्याहारः । देवाः देवताश्च स्त्रीपुरुषात्मना प्रसि- द्धाः सकला देवताः सुप्रणीताः येन बृहस्पतिनैव कार्येषुः सुष्ठु प्रणीयमा- ना देवताः संबभूवुः संभूताः संगता ऐकमत्यं प्राप्ताः सकला देवता य- स्य वशे वर्तन्ते । स कामः काम्यमानफलप्रदाता बृहस्पतिः अस्मान् का- मयमानान् अभ्येतुं2 फलप्रदानाय अभिमुखम् आगच्छतु ॥ [इति ] प्रथमेनुवाके चतुर्थं सूक्तम् ॥ 'इन्द्रो राजा" इति एकर्चेन सूक्तेन धनकामः इन्द्रं यजेत उपति- ष्ठेत वा ॥ ऋक्पाठस्तु इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति । ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश्चिदुर्वाक् ॥१॥ इन्द्रः । राजा । जगतः । चर्षणीनाम् । अधि । क्षमि । विषुऽरूपम् । यत् । अस्ति। ततः। ददाति । दाशुषे । वसूनि । चोदत् । राधः । उपऽस्तुतः । चित् । अ- र्वाक् ॥१॥ जगतः त्रैलोक्यस्य चर्षणीनाम् । मनुष्यनामैतत् । मनुष्योपलक्षितानां दै- वीनां मानुषीणां [च] प्रजानां राजा स्वामी इन्द्रः परमैश्वर्यसंपन्नो देवः दा- शुषे हविर्दत्तवते जनाय वसूनि धनानि ततः तस्मात् । आनीयेति अध्या- हारः । त्यन्लोपे पञ्चमी । ददाति ददातु3 । तत इत्युक्तं किं तद् इति तद् आह । क्षमि क्षमायां पृथिव्याम् । क्षमाशब्दात् स- प्तम्येकवचने “आतः" इति योगविभागाद् आकारलोपः । अधिः सप्तम्य- र्थानुवादी । विषुरूपम् नानारूपं यद् अस्ति तस्माद् ददातु इत्य- न्वयः । एतदेवाह चोददिति । उपस्तुतः अस्माभिरभिष्टुतः सन् । चि- च्छब्द एवार्थे । अर्वाक् अस्मदभिमुखं राधः धनं चोदत् चोदयेत् प्रेर- Parl. We with ÞJ. 18 वंश. 2 Sayana's text also: अभ्येतु. दातु for ददातु. ३४