पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६४ भाग्यम् । अथर्वसंहिताभाष्ये नुनासिकलोपः । “असिद्धवद् अत्रा भात्" इति अनुनासिकलोपस्य असिद्धत्वाद् “अतो हेः” इति हेर्लुक् न भवति । एतदेव आ- दरार्थं पुनरुच्यते आकृत्या न उपा गहीति ॥ अथो अपि च भगस्य भाग्यम् । “क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदानत्वाच्चतु- र्थी । “चतुर्थ्यर्थे बहुलं छन्दसि" इति षष्ठी । नः अस्मभ्यं दे- हि यच्छ । एतत् सर्व वृहस्पतेराभिमुख्येन विना न1 घटत इति तदेव प्रार्थ्यते अथो न इति चरमपादेन । अथो अपि च नः अस्माकं सु- हवः सुष्ठु ह्वातव्यः आह्वानमात्रेणानुकूलो भव ॥ चतुर्थी ॥ बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम् । यस्य देवा देवतः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान् ॥ ४ ॥ बृहस्पतिः । मे। आऽकूतिम् । आङ्गिरसः । प्रति । जानातु । वाचम् । एताम् । यस्य॑ । देवाः । देवताः । समऽबभूवुः । सः। सुऽप्रनीताः । कामः । अनु । एतु । अस्मान् ॥४॥ आङ्गिरसः अङ्गिरसां पुत्रः । बृहस्पतेरङ्गिरसः पुत्रत्वम् ऐतरेयब्राह्मणे समाम्नायते । “येङ्गारा आसंस्तेङ्गिरसोभवन् । यद् अङ्गाराः पुनरवशान्ता उददीप्यन्त तद् बृहस्पतिरभवत्" इति [ऐ० ब्रा०३.३४] । तादृशो दे- वः आकूतिम् सर्वाभिमायरूपाम् एतां सकलश्रुतिपुराणादिप्रसिद्धां वाचम् वाग्देवतां मे । x“क्रियार्थोपपदस्य” इति चतुर्थी । मह्यं दातुं प्रति जानातु स्मरतु ।“संप्रतिभ्याम् अनाध्याने" इति अ- नाध्यान इति निषेधात प्रतिपूर्वात जानातरात्मनेपदं न भवति छ । र्थिनं प्रति दातव्यस्मरणं प्रदानान्तं भवतीति तदेव प्रार्थते । यस्य बृह- १ BCD R S देवताः संवभूवुः. D• देवताः सर्वभूवुः corrected to Bषताः संबभुवुः. Ife with K KVD P. २ PJ सम् । बभूवुः. We with P. 1 Sन न for न.