पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰१. सू० ४.] ५४ एकोनविंशं काण्डम। २६३ इदमादिभिस्तिसृभिर्ऋग्भिर्वाग्देवता प्रार्थते । आकूतिम्1 तात्पर्यरूपाम् । लौकिकवैदिकसर्ववाक्यप्रतिपाद्याम् इत्यर्थः । देवीम् द्योतमानां सुभगाम् भगो भाग्यं शोभनभाग्ययुक्ताम् एवंरूपां वाग्देवतां पुरो दधे पुरस्कुर्वे प- रिचरामि । सर्वेष्वभीष्टकार्येषु वाग्देवतामेव पुरस्ताद् भावयामीत्यर्थः । अनर्थान्निवारकं हिते प्रवर्तकम् आप्तं जनं पुरोहितं कुर्वन्ति एवम अ- स्माभिः पुरतो2 निहिता चितस्य मनसः माता जननी यथा पुत्रो मा- तृवशे वर्तते एवं चितं 3स्वप्रभवं नियमयन्ती वाक् नः अस्माकं सुहवा सुष्टु ह्वातव्या अस्तु भवतु । आह्वानेन अस्मदनुकूला भवत्वित्यर्थः । किं च याम् आशां फलविषयां कामनाम् एमि प्राप्नोमि सा कामना मे मम केवली अस्तु असाधारणी4 भवतु । 5मदन्यं न कामयताम् इत्य- र्थः। g"केवलमामक." इति केवलशब्दाच्छन्दसि ङीप । न केवलं कामना किं तु मनसि प्रविष्टाम् निहितां सर्वदा मनसि प्रव- र्तमानाम् एनां फलविषयां कामनां विदेयम् फलपर्यवसायिनीं लप्स्या- सम् । विदेर्लाभार्थाद् आशीर्लिङि “लिड्याशिष्यङ्” इति अङ् प्रत्ययः । ङीत्वात् लघूपधगुणाभावः ॥ तृतीया ॥ आकृत्या नो बृहस्पत आकूत्या न उपा गहि । अथो भगस्य नो धेह्यथो नः सुहवो भव ॥ ३ ॥ आऽकृत्या । नः । बृहस्पते । आऽकूत्या । नः । उप । आ । गहि । अथो इति।भगस्य । नः। धेहि । अथो इति। नः । सुऽहवः । भव ॥३॥ हे बृहस्पते बृहतां देवानां हितोपदेष्टुत्वेन पालक एतन्नामक देव आ. कूत्या सर्ववाक्यतात्पर्यार्थरूपया वाचा सह नः अस्मान् उपागहि वाग्दे- वताम् अस्माकम अनुकूलयितुम् उपागच्छ । गमेर्लोटि “बहुलं छन्दसि" इति शपो लुक् । हेर्डित्त्वाद् “अनुदातोपदेश” इति अ- PODRŠC Tic. We with KÄVD.. 18' आकृती. Sityraria's text too: आकृती देवी.. एवमिति अस्माभिरवं पुरतो fion एवम् अस्माभिः पुरतो. 33 स्वप्रणवं. 18' असाधारणं. S मद्वदन्येन काम