पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६२ अथर्वसंहिताभाष्ये ब्रा० १.४ ] ब्राह्मणे परब्रह्मसृष्टाखेवाप्सु परमात्मानम् अन्विष्येति अशरीरया वाचा भृगुं प्रति उक्तम् । तस्माद् अथर्वशब्दवाच्यत्वं परमात्मनोथर्ववेद- स्रष्टुराम्नायते ॥ अथर्वा अथर्वशब्दवाच्यः परमात्मा प्रथमाम् सर्वसृष्टेः प्राक्कालीनां याम् आहुतिम् अकृणोत स्वसृष्टदेवप्रीणनाम् अकरोत् । जा- तवेदाः जातानि वेत्ति जातैर्विद्यते ज्ञायत इति वा जातवेदा अग्निः या । द्वितीयाया लुक् । याम् अथर्वणा दत्ताम् आहुतिं जाताय प्रादुर्भूताय देवगणाय हर्व्याम् होतुं दातुम् अर्हा यथाभागं क- ल्पनीयाम् अकृणोत अकरोत् । जुहोतेः अर्हार्थे यत् प्रत्ययः । "वान्तो यि प्रत्यये” इति अव् आदेशः । ताम् एताम् आहु- तिं प्रथमः सर्वेभ्यो यजमानेभ्यः पूर्वभावी सन् ते । अग्निः संबोध्य- ते । विभक्तिव्यत्ययः । त्वयि अथ वा ते तव । आस्ये इत्य- ध्याहारः । जोहवीमि अत्यर्थं जुहोमि । यजमानेन सर्वयष्टृभ्यः पूर्वं देवताः परिग्रहणीया इत्यत्र मन्त्रवर्णः । 'वसून् रुद्रान् आदित्यान् इन्द्रेण सह देवतास्ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया" [तै वा ३.७. ४.३] इति । ताभिः तिसृभिस्तनूभिः सह स्तुतः स्तोतृभिरभिष्टुतोग्निः हव्यम् देवयोग्यं हविः वहतु प्रापयतु देवान् इति । सामान्यप्रतीतावाह अग्नये स्वाहेति । अग्नये अग्निशब्दप्रतिपाद्यायै देवतायै स्वाहा इदं हविः सुहुतम् अस्तु । एवं शरीरत्रययुक्तोग्निः अनेन मन्त्रेण प्रतिपाद्यते ॥ द्वितीया ॥ आकृतिं देवीं सुभगां पुरो दधे चितस्य माता सुहवा नो अस्तु । यामाशामेमि केवली सा मै अस्तु विदेयमेनां मनसि प्रविष्टाम् ॥२॥ आऽकृतिम् । देवीम् । सुऽभगाम् । पुरः । दधे। चितस्य । माता । सुऽह- 6 वा । नः । अस्तु । याम् । आऽशाम् । एमि । केवली । सा । मे। अस्तु । विदेयम् । एनाम् । मनसि । प्रविष्टाम् ॥२॥ ARCDBP fazi. Wo with KK DUCSÚJV. DKÄRSV DCC-PÉ J. So we with ABC