पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

“ [अ॰१. सू०४.] ५४८ एकोनविंशं काण्डम् । 'यामाहुतिम्" इति सूक्तस्य मेधाजननकर्मणि वर्चस्वकर्मणि च वि- नियोगः पूर्वसूक्तेन सह उक्तः ॥ तत्र प्रथमा। यामाहुतिं प्रथमामथर्वा या जाता या हव्यमकृणोज्जातवेदाः । तां त एतां प्रथमो जोहवीमि ताभिष्टुप्तो वहतु हव्यमग्निरग्नये स्वाहा ॥१॥ याम् । आहुतिम् । प्रथमाम् । अथर्वा । या । जाता । या । हव्यम् । अ- कृणोत् । जातऽवेदाः । ताम् । ते । एताम् । प्रथमः । जोहवीमि । ताभिः । स्तुप्तः । वहतु । हु- व्यम् । अग्निः । अग्नये । स्वाहा ॥१॥ तिस्रः खलु अग्नेस्तन्वः । देवतारूपा हविःप्रापकदूतरूपा हविःप्रक्षेपा- धाराङ्गाररूपा चेति । तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन्” इति [ऋ०३.२०.२] मन्त्रवर्णात् । “तव मयाजा "अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः । तवाग्ने यज्ञो- 'यमस्तु सर्वस्तुभ्यं नमन्तां प्रदिशश्चतस्रः” [ऋ०१०. ५१.९] 1इत्य- त्र अग्नेर्देवतारूपत्वम् आम्नायते । हविःप्रापकदू2तरूपत्तम् अग्नेर्देवानां च उक्तिप्रत्युक्तिरूपाभ्यां मन्त्राभ्याम् अवगम्यते ।विश्वे देवाः शास्तन मा 'यथेह होता वृतो मनवै यन्निषद्य । प्र मे ब्रूत भागधेयं यथा वो येन "पथा हव्यमा वो वहानि" इति [.१०. ५२.१] । “कुर्मस्त आ- "युरजरं यद् अग्ने यथा युक्तो जातवेदो न रिष्याः । अथा वहासि सु- "मनस्यमानो भागं देवेभ्यो हविषः सुजात' इति [ऋ० १०.५१.७] । हविःप्रक्षेपाधाररूपत्वं तु सर्वलोकसंप्रतिपन्नम् । “त्वे देवा हविरदन्त्याहु- तम्" इति [ऋ०२.१.१३ ] श्रुतेः । तद् इदम् अत्रोच्यते । अथ- र्वा । “अथार्वाग् एनम् एतास्वेवाप्स्वन्विच्छेति । तद् यद् अब्रवीद् अथार्वाग् एनम् एतास्वेवाप्स्वन्विच्छेति तद् अथर्वाभवत्" इति [गो BK V and Sayana's text: art for Fiat TT. We with ACDKRD Cs PÞJ. 18 इति इत्यत्र for इत्यत्र. 25 दूतदूत. o