पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६० अथर्वसंहिताभाष्ये तया । प्रत्येकविवक्षया एकवचनमः । ताभिस्तनूभिः सह अस्मासु रयिमd धनं धेहि प्रयच्छ ॥ चतुर्थी ॥ श्रुत्कर्णाय कवये वेद्याय वचोभिर्वाकैरुप यामि रातिम् । यतो भयमभयं तन्नो अस्त्वव देवानी यज़ हेडो अग्ने ॥ ४ ॥ श्रुतऽकर्णाय । कवये । वेद्याय । वचःऽभिः । वाकैः । उप । यामि । रातिम्। यतः । भयम् । अयम् । तत् । नः । अस्तु । अव । देवानाम् । यज । हे. ड: । अग्ने ॥ ४॥ हे अग्ने श्रुत्कर्णाय अस्मदीयस्तुतिश्रवणसमर्थकर्णयुक्ताय । xशृणो- तेः क्विप् । श्रुतौ कर्णौ यस्येति विग्रहः । कवये । कविः कान्त- दर्शी । अतीन्द्रियार्थदर्शिने वेद्याय सर्वैज्ञातव्याय वेदार्हाय वा। तद् अर्हति" इति यत् । "क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदानत्वा- चतुर्थी । एवंगुणविशिष्टं त्वां [रातिम्] अभिलषितफलदानम् उप यामि । याञ्जाकर्मैतत् । उपयाचामीत्यर्थः । र याचतेर्लटि अन्यलो- पश्छान्दसः । कैः साधनैर्याचनं तद् आह । वचोभिः मन्त्ररूपैर्वा- क्यैः । 1वाकैः । एकदेशेन व्यपदेशः । अनुवाकैर्मन्त्रसंघात्मकैः । वाकैर्वक्तव्यैः सूक्तैर्वा । कीर रातिः । तत्स्वरूपं दर्शयति । यतः यस्माद् भयं भी- तिर्भवति तत् । x “सुपां सुलुक्" इति पञ्चम्या लुक् । त- स्माद् अभयम् भयराहित्यं नः अस्माकम् अस्तु भवतु । अथ वा तद् यतो भयं तत् सर्वं भयकारणम् अभयम् भयनिमित्तं न भववित्यर्थः । भयहेतौ विद्यमाने कस्माद् 2अभयप्रार्थनं तत्राह अवेति । हे अग्ने देवा- नाम् दीव्यतां हेडः । क्रोधनामैतत् । क्रोधम् ।हेडृ अनादरे इत्यस्माद् असुन् । अव यज तिरस्कुरु । ये ये अस्मभ्यं क्रुध्यन्ति तेषां क्रोधं निवारयेत्यर्थः ॥ [इति ] प्रथमेनुवाके तृतीयं सूक्तम् ॥ ABAT*HT. We with CDRV. Comits 37° in . We with ABDRV. IS' rearls वाकै: 11' एकदेशेन व्यपदेशः. 8 उभय. हेड अनादरे