पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लि- [अ॰१. सू°३.] ५४७ एकोनविंशं काण्डम् । २५९ मन्त्रवर्णः । “ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टम् अग्ने अप्स्वोषधीषु" इति [.१०.५१.३] । यश्च वनेषु वर्तते दावाग्निरूपेण । यश्च ओ.- षधीषु महिमा फलपाकनिमितभूतः । यश्च पशुषु पशूपलक्षितेषु सर्वप्रा- णिषु वैश्वानरात्मना वर्तते । अप्सु अन्तरिक्षस्थेषु उदकेषु । मेघेष्वित्यर्थः । तेषु अन्तः मध्ये वैद्युतात्मना यो महिमा वर्तते हे अग्ने सर्वाः अबादि- स्थानविशेषनिष्ठमहिमरूपाः तन्वः शरीराणि सं 1रभस्व संकलय । तत्रतत्र विभक्तास्तनूरेकत्र संमेलयेत्यर्थः । किमर्थं संकलनं तद् आह ताभिरि- ति । ताभिः सर्वाभिस्तनूभिः सह नः अस्मान् अजस्रः । लि ङ्गव्यत्ययः । अजस्रम् अनवरतं द्रविणोदाः धनस्य दाता सन् ए-. हि आगच्छ ॥ तृतीया ॥ यस्ते देवेषु महिमा स्वर्गो या ते तनूः पितृष्वाविवेश । पुष्टिर्या ते मनुष्येषु पप्रथेग्ने तया रयिमस्मासु धेहि ॥ ३ ॥ यः । ते । देवेषु। महिमा । स्वःऽगः । या । ते। तनूः । पितृषु । आऽविवेश। पुष्टिः । या । ते । मनुष्येषु । पप्रथे । अग्ने । तया । रयिम् । अस्मासु । धेहि ॥३॥ हे अग्ने ते तव 2स्वर्गच्छतीति स्वर्गः । “डोन्यत्रापि दृश्यते" इति डप्रत्ययः । दिवः प्रापणार्थ स्वर्लोकं गन्ता यो महिमा देवे- षु । विषयसप्तमी । देवविषये वर्तते । यजमानैर्दत्तं हविः देवान् प्रापयितुम् इहलोकसंचारी यो माहात्म्यगुणो वर्तते । या च ते त्वदीया तनूः 3पितृषु आविवेश पितृषु आविश्य 4स्वधाकारेण प्रत्तं कव्य- संज्ञकं हविः पितॄन् प्रापयितुं पितृलोकसंचारिणी वर्तते । या च ते त्व- दीया पुष्टिः मनुष्येषु मनुष्योपलक्षितेषु सर्वेषु चराचरात्मकप्राणिषु पप्रथे प्रथिता अशितपीतादिपाककरणाद् मनुष्यादिषु या त्वकर्तृका पुष्टिर्वर्तते 18 भरस्व, though its text has रभस्व. 28' स्वर्ग गच्छतीति. 38 पितृषु पितृषु आविवेश आविश for पितृषु आविवेश पितृषु आविश्य. 4 S' स्वकारेण.