पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५४ परिः अथर्वसंहिताभाष्ये यत्रऽयत्र । विऽभृतः । जातऽवेदाः। ततः । स्तुतः । जुषमाणः । नः । आ। इहि ॥१॥ धुलोकादीनि अग्नेरुत्पत्तिस्थानानि । अत एव "जनिकर्तुः प्र- कृतिः” इति अपादानसंज्ञायाम् “अपादाने पञ्चमी” इति द्युशब्दा- दिभ्यः पञ्चमी । दिवः द्युलोकात् पृथिव्याः भूमेः । परिः पञ्चम्यर्थानुवादी । अन्तरिक्षात् अन्तरा1 क्षान्ताद् मध्यमलोकाद् वनस्पतिभ्यः पुप्पैर्विना फलद्भ्यो वृक्षेभ्यः ओषधीभ्यः ओषः पाको धीयत आस्विति ओषध्यः फलपाकान्ताः ताभ्यश्च । अधिः पञ्चम्यर्थानु- वादी । द्युलोकादिभ्य उत्पन्नो2 जातवेदाः जातानि वेत्ति जातैर्वि- द्यते ज्ञायत3 इति वा जातवेदाः यत्रयत्र यस्मिन् यस्मिन् स्थाने विभृतः विशेषेण पूर्णो वर्तते । यद्वा विभृतो विह्रतो विभक्तो वर्तते ततस्ततः तेभ्यः सर्वेभ्यः स्थानेभ्यः नः अस्मान् जुषमाणः ।अन्तर्भावित-

ण्यर्थः । जोषयमाणः प्रीणयन् । "लक्षणहेत्वोः क्रियायाः"

इति हेतौ शानच् प्रत्ययः ।अस्मत्प्रीणनाद्वेतोः एहि आगच्छ ॥ द्वितीया ॥ यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुषप्स्वन्तः । अग्ने सर्वास्तन्व: सं रभस्व ताभिर्न एहि द्रविणोदा अज॑स्रः ॥२॥ यः । ते । अप्ऽसु । महिमा । यः । वनेषु । यः । ओषधीषु । पशुषु । अपऽसु । अन्तः । अग्ने । सर्वाः । तन्वः । सम् । रभस्व । ताभिः नः । आ । इहि । द्र. विणःऽदाः । अजस्रः ॥२॥ हे अग्ने ते तव यो महिमा अप्सु उदकेषु वर्तते । अनेरुदकप्रवेशः श्रूयते 'सोपः प्राविशत्" [तै सं० २.६.६.१] इति । दाशतय्यामपि ⓇPH Jferta: 1. ABCDR for . Wo with KÄV. ABCDRF afd. Prat: We wille KĀ V De aut with Ø und J (as originally). IS अंतरि for अन्तरा. 8 उत्पनाग्निः यहुना जातवेदाः. 38'जायत. श्रूयते