पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५७ 66 [अ॰१. सू°३.] ५४७ एकोनविंशं काण्डम् । सूत्रितं हि । “प्रातरग्निम् [३.१६] गिरावरगराटेषु [६. ६९] दिव- 'स्पृथिव्याः [९.१] इति दधिमध्वाशयति कीलालमित्रं क्षत्रियं कीला- 'लम् इतरान्" इति [कौ०२.३] ॥ यथा नवमकाण्डे समाम्नातयोः “दिवस्पृथिव्याः” इति [९.१.१- १०] "यथा सोमः प्रातःसवने” इति [९.१.११-२४] सूक्तयोः प्र- थमसूक्ते “मधुकशा हि जज्ञे” इति मन्त्रेषु कशेति वाङ्नामलिङ्गाद् द्वितीयसूक्ते “वर्चस्वतीं वाचम् आवदानि जनो अनु” इति वाग्लिङ्गाच्च मेधाजननकर्मणि विनियोगः तथा “यथा सोमः प्रातःसवने" [९.१. ११-२४] इति द्वितीयसूक्ते "एवा मे अश्विना वर्च आत्मनि प्रियताम्" इति वर्चोलिङ्गाद् वर्चस्यकर्मणि च विनियोग उक्तः एवम् अत्रापि प्र- थमसूक्ते वर्च:समानार्थमहिमपुष्ट्यादिलिङ्गाद् द्वितीयसूक्ते “अथो भगस्य नो धेहि" इति लिङ्गाच्च वर्चस्यकर्मणि “बृहस्पतिर्म आकूतिम् आङ्गि- रसः प्रति जानातु वाचम् एताम्" इति वाग्लिङ्गाच्च मेधाजननकर्मणि विनियोग उच्यते । एवम् अनयोरेव 1विनियोगान्तरेषु यथायथं लिङ्गम् अवगन्तव्यम् । अत एव कौशिको भिन्नप्रदेशस्थस्य सूक्तद्वयस्य सर्वत्र वि- नियोगं सूचयितुं "दिवस्पृथिव्याः" इति उभयसाधारणं सूक्तप्रतीकं सूत्र- यामास । यत्र सूक्तविशेषस्य विनियोगोपेक्षितस्तत्र सूक्तं विशिष्य सूत्रित- वान् । यथा वैताने । “दिवस्पृथिव्या इति 2मधुसूक्तेन राजानं [संश्रयति" इति [वै०३.६] ॥ तत्र प्रथमा॥ दिवस्पृथिव्याः पर्यन्तरिक्षाद् वनस्पतिभ्यो अध्योषधीभ्यः । यत्रयत्र विभृतो जातवेदास्तत स्तुतो जुषाणो न एहि ॥ १ ॥ दिवः । पृथिव्याः । परि । अन्तरिक्षात् । वनस्पतिऽभ्यः । अधि । ओर्ष- धीभ्यः। १० स्पतिभ्यो. PA K बिभ्रतो. C D R BV बिभृतो. D विभृतो changeal to बिभ्र- a. We with Cs. So we with DCRAB V De Cs PÞJ. 18 विनियोगो. 2 मधुयुक्तेन. We with the Vaitana.