पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(म- अपः । ते यूयम २५६ अथर्वसंहिताभाष्ये इदमपि प्रयोजकस्स वाक्यम् । ताः प्रसिद्धा या आपः1 शिवाः शिव- कारिण्य आपः अयक्ष्मकरणीः अरोगकारिण्यो या अपः आपः । प्र- थमार्थे द्वितीया । “आढ्यसुभग” इति विहितः ख्युन प्रत्ययः अयक्ष्म- शब्दोपपदादपि व्यत्ययेन उत्पन्नः । “खित्यनव्ययस्य” इति मुम् आग- मः । ता भेषजी भिषग्वद् 2आमयनिर्हारिकाः हितकारिणीश्च अपः। "केवलमामक” इति ङीप् प्रत्ययः । ते यूयम् [प्रयोक्तारः] । * युष्मच्छब्दादेशशब्दो न भवति । तच्छब्दस्य प्र- थमाबहुवचने रूपम् । निघातस्तु छान्दसः । आ दत्त आनय- ४ डुदाञ् दाने । लोटि मध्यमबहु4वचनम् । “आङो दोना- स्यविहरणे" इति आत्मनेपदं सर्वविधीनां छन्दसि विकल्पितत्वाद् न भ- वति । उदकानयने फलं दर्शयति यथैवेति तृतीयपादेन । मय इति सुखनाम् । सुखं यथैव । एवकारो भिन्नक्रमः । सुखमेव येन प्र- कारेण तृप्यते तृप्तम् अधिकं भवति । अधिकसुखलाभाय शान्त्युदकम् आनयतेत्यर्थः । यद्वा ते त्वदर्थम् आदत्त आनीतवान् इति प्रयोक्ता स्वा- त्मानं परोक्षणाह । “आङो दः” इति आत्मनेपदम् ॥ [इति ] प्रथमेनुवाके द्वितीयं सूक्तम् ॥ ["दिवस्पृथिव्याः" इति सूक्तद्वयं मेधाजननकर्मणि विनियुज्यते । एतेन सूक्तद्वयेन मेधाकामः सुप्त्वोत्थाय मुखं हस्तेन प्रक्षालयति । सूत्रितं हि ।] दिवस्पृथिव्याः इति संहाय मुखं विमार्ष्टि” इति । [कौ.२.१] ॥ वर्चस्कामोपि अनेन सूक्तद्वयेन दधिमधुनी संपात्य अभिमन्त्य अ- श्नीयात् ॥ तथा वर्चस्कामः क्षत्रियश्चेद् अनेन सूक्तद्वयेन 5भक्तमिश्रिते दधिमधु- नी संपात्य अभिमन्त्र्य क्षत्रियं प्राशयेत् ॥ वर्चस्कामो वैश्यशूद्रा6दिश्चेद् अनेन सूक्तद्वयेन केवलम् ओदनं संपात्य अभिमन्त्र्य प्राशयेत् ॥ 1 Sayarsa's text too: शिवा आपोयक्ष्म. 25 अनर्व tor आमय, 35 युष्मच्छब्दोदे- शशब्देन भवति । तुच्छब्दस्य. 18 बहुवचने for बहुवचनम्. 59 भक्ति . 65 शूदचे.