पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५४ अथर्वसंहिताभाष्ये वद् यत् । ते शं सन्तु । तथा खनित्रिमाः खननेन निर्वर्त्याः कू- पतटा1कादिस्था आपः ते तव शं भवन्तु । खनतेर्बाहुलकात् क्रि- प्रत्ययः । “आर्धधातुकस्येड्वलादेः" इति इडागमः । “क्रेर्मनित्यम्" इति मप् प्रत्ययस्तद्धितः । तथा कुम्भेभिः कुम्भैः आभृताः आह्रता आनीता या आपः सन्ति ता अपि शं भवन्तु । x “ह्रग्रहोर्भश्छ- न्दसि" इति भः ॥ तृतीया ॥ अनभ्रयः खनमाना विमा गम्भीरे अपसः । भिषग्भ्यो भिषक्तरा आपो अच्छा वदामसि ॥ ३ ॥ अनभ्रयः । खनमानाः । विप्राः । गम्भीरे । अपसः । भिषक्ऽभ्यः । भिषक्डतराः । आपः । अच्छे । वदामसि ॥ ३॥ अनभ्रयः अभ्रिः खननसाधनं कुद्दालादि । तद्रहिताः सन्तः खन- मानाः काष्ठहस्तपादादिना खननशीला गम्भीरेअपसः गम्भीरे असाध्ये- पि विषये अपः कर्म येषां ते दुःसाध्य2मपि प्रयोजनं मन्त्रबलात् साध- यन्तो विप्राः मेधाविनः । इति सर्वम् ऋत्विग्विशेषणम् । एते वयं भि- षग्भ्यः वैद्येभ्योपि3 भिषक्तराः । भिषजो हि 4औषधानि अन्यतः समा- नीय चिकित्सन्ति । अपां5 तु मध्ये भेषजानि विद्यन्त इति लौकिकेभ्यश्चि- कित्सकेभ्योपि6 शिष्टा वैद्याः । तथा च निगमः ।'अप्सु मे सोमो अ- ब्रवीद् अन्तर्विश्वानि भेषजा" [ऋ०१०.९.६] “आपश्च विश्वभेषजी;" इति च [ऋ०१.२३.२०] । तथाविधा आपः । “अप्नृन्" इति असर्वनामस्थानेपि छान्दसो दीर्घः ।अच्छा वदामसि अभि- वदामः अभिष्टुमः । "इदन्तो मसिः" "अच्छ गत्यर्थवदेषु" इति अच्छशब्दो गतिसंज्ञकः ॥ अथ वा पूर्वार्धं सर्वम् अविशेष- णम् । अनभ्रयः अभ्र्यादिसाधनराहित्येन खनमानाः तटद्वयम् अवदार- 18 तडाकादि. 28 दुःसाधमपि. 38 वैद्योपि for वैद्येभ्योपि. 48 ओषधानि. 58 अप्सुपांतु for अपां तु. 60 °चिकित्सिकेभ्यो. (6 "