पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

6̟ >>

२५२ अथर्वसंहिताभाष्ये यज्ञमिमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि ॥३॥ रूपमऽरूपम् । वयःऽवयः । समऽरभ्य । एनम् । परि । स्वजे । यज्ञम् । इमम् । चतस्रः । प्रऽदिशः । वर्धयन्तु । समऽस्राव्येणि । हवि- षा । जुहोमि ॥ ३॥ रूपंरूपं वयोवयः । “नित्यवीप्सयोः" इति द्विर्वचनम् । “नि- त्यं1 वा वयः"सप्तदश वयांसि ̟इति च श्रुतेः ।। समस्तं पशुपुत्रादिकम् अभिलषितं फलं संरभ्य गृहीत्वा एनं कर्मप्रयोजयितारं फलकामं यजमानं परि ष्वजे पशुपुत्रादिफलैः सर्वतः संबद्धं करोमि इति प्रयोक्ता ब्रूते । x“इदमोन्वादेशे०” एनादेशः । ष्वञ्ज परि- ष्वङ्गे । लटि उत्तमैकवचने "दंशसञ्जस्वञ्जां शपि" इति उपधानकारलो- पः । कथम् एकेन प्रयोक्ता सर्वरूपवयसां स्वीकारः । तत्राह । चतस्रः प्रदिशः प्रकृष्टाः प्राच्यादयो महादिशः तत्रस्था जनाः इमं य- ज्ञम् यजमानं वर्धयन्तु । अभिलषितैः सर्वैः समृद्धं कुर्वन्तु । संस्राव्येणे- ति पादः पूर्ववत् ॥ [इति ] एकोनविंशे काण्डे प्रथमेनुवाके प्रथमं सूक्तम् ॥ "शं त आपः” इति सूक्तेन तन्नभूतमहाशान्तौ नद्यादिसमाहृतं जलम् अभिमन्त्रयेत । सूत्रितं हि नक्षत्रकल्पे । नदीभ्यो वा हूदेभ्यो वा जलं पुण्यं समाहरेत् । सं सं स्रवन्तु तद् विद्वान् अभिमन्त्रयते ततः ॥ शंत आपो हैमवतीः॥ इति [न क° २० ॥ तत्र प्रथमा। शंत आपो हैमवतीः शमु ते सन्तूत्त्स्याः । शं ते सनिष्यदा आपः शमु ते सन्तु वर्ष्याः ॥१॥ १D: शमु ते clatungryl to शर्मु ते. Sayana's text शं ते संतूत्स्याः. २ AD सनिष्यद, ३ A C D Cs शमु ते सन्तु. Dशमु ते संतु changeal toशमु ते संतु. We with BKVDr. | नित्यवाइयः.