पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" 5) [अ०१. सू०१.] ५४५ एकोनविंशं काण्डम्। २५१ र्मप्रयोक्तारः संबोध्यन्ते । अत्र हविषः सद्भावं दर्शयति संस्राव्येणेति । सम्यक् स्रवणं संस्रावः । सृ गतौ । भावे षञ् । संस्रा वम् अर्हतीति संस्राव्यम् आज्यपयःप्रभृति । “तद् अर्हति" इति यत् प्रत्ययः । यद्वा संस्रावणीयेन । संपूर्वात् स्रवते- र्ण्य॑न्ताद् “अचो यत्" इति यत् प्रत्ययः । तादृशेन हविषा आ- ज्यादिना जुहोमि आज्यादिकं हविः देवान् उद्दिश्य अग्नौ प्रक्षिपामीत्य- र्थः। x“तृतीया च होश्छन्दसि इति हविषेति कर्मणि तृतीया ॥ द्वितीया ॥ इमं होमा यज्ञमवतेमं संस्रावणा उत । यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥२॥ इमम् । होमाः । यज्ञम् । अवत । इमम् । समऽस्रावणाः । उत । यज्ञम् । इमम् । वर्धयत । गिरः । समऽस्राव्येण । हविषा । जुहोमि ॥२॥ हे होमाः आहुतयः यूयम् इमं प्रवर्त्यमानं यज्ञम् आहुतिसमुदाया- त्मकं कर्म अवत तर्पयत । कतिपयाहुतीनां परित्यागे विपर्यासे वा त- त्समष्टिरूपस्य कर्मणो वैगुण्यं भवतीति व्यस्ता एव आहुतयः पृथक् प्रा- र्थ्यन्ते । यथा वनसभादिषु समूहिवृक्षाद्यभावात् समूहाभावः एवम् अत्रा- पि । उत अपि च हे संस्रावणाः । कर्मणि ल्युट् प्रत्ययः । सं स्रावणीयाः आज्यपयःप्रभृतयः यूयम् इमं यज्ञम् अवत । साधनाभावे साध्यस्य अनिष्पादनात् ॥ अथ वा हे होमाः होतव्या देवताः इमं यज्ञम् यष्टारं फलकामं यजमानम् अवत । पशुपुत्रादिभिः सर्वैः फलैः समर्धयत । जुहतीति होमा इति प्रयोक्तारो वा संबोध्यन्ते ॥ यज्ञम् इमम् इत्यादिरुतरार्धर्चो व्याख्यातः ॥ तृतीया ॥ रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे । So wc with A BCDKŘPÝJC: De. R forza. We with BCDVD.C. 18 हेम for हे होमा..