पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५० " अथर्वसंहिताभाष्ये प्रथम1काण्डे “सं सं स्रवन्तु सिन्धवः” इति समाम्नातं चतुर्ऋचं सूक्तम् [१.१५] "इहैतु सर्वो यः पशुरस्मिन् तिष्ठतु या रयिः” इति “ते- भिर्में सर्वैः संस्रावैर्धनं सं स्रावयामसि" इति च धनरयिलिङ्गात सर्वपुष्टि- कर्मणि लक्ष्मीकरणे2 चं विनियुक्तम् । अत्रापि “यज्ञम् इमं वर्धयता गिरः” “रूपरूपं वयोवयः” इति लिङ्गात् सर्वपुष्टिकर्मणि लक्ष्मीकरणे च3 विनियुज्यते । अत एव उभयसाधारणं 4सूक्तंप्रतीकं कौशिकः सूत्रित- वान् “सं सं स्रवन्त्विति नाव्याभ्याम् उदकम् आहरतः इति [कौ. ३.२] 5“सं सं स्रवन्तु तद् विद्वान्" इति च [न. क०२०] । अतः सूक्तयोः समुच्चयेन विकल्पेन वानुष्ठानम् ॥ तत्र प्रथमा॥ सं सं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः । यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥१॥ सम् । सम् । स्रवन्तु । नद्यः । सम् । वाताः । सम् । पतत्रिणः । यज्ञम् । इमम् । वर्धयत । गिरः। समऽस्राव्येण । हविषा । जुहोमि ॥१॥ नद्यः नदनशीला निम्नगाः सं सं स्रवन्तु [सम्यक् प्रवहन्तु । वा- ताश्च सं स्रवन्तु] आनुकूल्येन वान्तु । तथा पतत्रिणः पतत्राणि पक्षा येषां सन्ति ते तदुपलक्षिताः सर्वे प्राणिनः सं स्रवन्तु । सम्यग् अनुकू- ल6स्वभावाश्चरन्नु । यद्वा एते नदीप्रभृतयः सं स्रवन्तु । अन्त- र्भावितण्यर्थः ।सं स्रावयन्तु । अस्मदभिलषितं फलं प्रयच्छ- न्तु इत्यर्थः ॥ हे गिरः गीर्यन्ते स्तूयन्त इति गिरः । कर्मणि क्विप् । हे देवाः स्तूयमाना यूयम् इमम् हविःप्रदं यज्ञम् यजमा- नम् । व्यत्ययेन कर्तरि नङ् प्रत्ययः । यस्य कृते पुण्यादि- कर्मशान्तिरनुष्ठीयते तं फलस्वामिनं यजमानं वर्धयत पशुपुत्रादिभिः समृद्धं कुरुत । अपि वा गृणन्तीति गिरः । कर्तरि क्विप् । BCDR for . We with KKV De C. 18 सप्तम for प्रथम,S करणेति for °करणे च.38 करणेन for °करणे च.18' सूक्तं lion सूक्त... Kausike nowhere give: सं सं सवन्तु तद्विछन्. GS om. स्वभा'. कर्मणि