पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

CE श्रीगणाधिपतये नमः। वागीशाद्याः सुमनसः सर्वार्थानाम् उपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ यस्य निश्वसितं वेदा यो वेदेभ्योखिलं जगत् । निर्ममे तम् अहं वन्दे विद्यातीर्थमहेश्वरम् ॥ एकोनविंशे काण्डे सप्तानुवाकाः । तत्र प्रथमेनुवाके दश सूक्तानि । तत्र “सं सं स्रवन्तु” इति प्रथमं सूक्तं सर्वपुष्टिकर्मणि संपाताभिम- न्त्रितमैश्रधान्यचरुप्राशने दधिमधुमिश्रसक्नुमन्थप्राशने च विनियुक्तम् । सूत्रितं हि । “सं सं 1स्रवनित्वति नाव्याभ्याम् उदकम् आहरतः सर्वत उपासेचं2 तस्मिन् मैश्रधान्यं शृतम् अन्नाति" इत्यादि [को॰३.२] । व्रीहियवादीनि मिश्रधान्यानि । 'व्रीहियवगोधूमोपवाकतिलप्रियङ्गुश्या- माका इति मिश्रधान्यानि” इति [को०१..] परिभाषासूत्रात्3 ॥ लक्ष्मीकरणेपि एतत् सूक्तम् । सूत्रितं हि । “यस्य श्रियं कामयते ततो व्रीह्याज्यपय आहार्य क्षीरौदनम् अश्र्नाति" इत्यादि [को०३.२] ॥ तथा अमृतादिमहाशान्तिसाधारणभूतायां शान्तौ शान्त्युदकार्थं नदीह्रदा. दिभ्यः समाहृतं4 जलम् अनेन सूक्तेन अभिमन्त्रयेत । तद् उक्तं नक्षत्रकल्पे । तन्त्रभूतां5 महाशान्तिं प्रवक्ष्यामो यथाविधि । अन्यासां सर्वशान्तीनाम् अमृतां विश्वभेषजीम् ॥ नदीभ्यो वा ह्रदेभ्यो वा जलं पुण्यं समाहरेत् । सं सं स्रवन्तु तद् विद्वान् अभिमन्त्र्यते6 ततः ॥ इति [न क° २०॥ 18 नवंति for स्रवन्त्विति which we with Kausike. सेचन ( in one Ms.) anil उपासेचं ( in another). 38 परिभाषसूत्रात्. +8 समा. हितं. 5 तंत्रभूतं. मंत्रयेत for °मन्त्रयते. SoS'. Kausiku उपा-