पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

. २४६ अथर्वसंहिताभाष्ये कारिभ्यः अस्मभ्यम् इषम् इष्यमाणम् अन्नम् इष्टं फलं वा आ भर आहर देहि ।"हग्रहोर्भः." ॥ चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि । नवो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥४९॥ (२८) चन्द्रमाः । अप्सु । अनंतः । आ । सुऽपर्णः । धावते । दिवि । न । वः । हिरण्यऽनेमयः । पदम् । विन्दन्ति । विडद्युतः । वित्तम् । मे। अस्य । रोद॑सी इति ॥ ९ ॥ (२८) दशमी ॥ अत्र शाट्यायनिन इतिहासम आचक्षते । एकतो द्वितस्त्रित इति पुरा त्रय ऋषयो बभूवुः । एते कदाचिद् मरुभूमौ अरण्ये वर्त- मानाः पिपासया संतप्तगात्राः सन्तः एकं कूपम् अविन्दन् । तत्र त्रिताख्य एको जलपानाय कूपं प्राविशत् । प्रविश्य स्वयम् अपः पीत्वा इतरयोश्च कूपाद् उदकम् उद्धृत्य प्रादात् । तावुभौ तद् उदकं पीत्वा तं त्रितं कूपे पातयित्वा तदीयं धनं सर्वम् अपहृत्य कूपं च रथचक्रेण पिधाय प्रास्थिषाताम् । ततः कूपे पतितः स त्रितः कूपाद् उत्तरीतुम् अशक्नुवन् सर्वे देवा माम उद्धरन्तु इति मनसा सस्मार । अथ स त्रितो रात्रौ कूपस्य अन्तश्चन्द्रमसो रश्मीन् अपश्यन अनया ऋचा परिदेवयत इति ॥ अस्या ऋचः अयम् अर्थः । अप्सु 1आन्तरिक्षासु उदकमये मण्डले अ. न्तः मध्ये । यद्वा आप इति अन्तरिक्षनाम । तत्र मध्ये वर्तमानः सुपर्णः शोभनपतनः । यद्वा सुपर्ण इति रश्मिनाम । सुषुम्नाख्येन सूर्यरश्मिना युक्त2श्चन्द्रमाः चन्द्रम् आह्लादं सर्वस्य जगतो निर्मिमीत इति चन्द्रमाः । "चन्द्रे माङो डित् [उ०४.२२७] इति असुन् । दासीभारादिषु पाठात् पूर्वपदप्रकृतिस्वरत्वम् । आह्लाद- कारी सोमो दिवि द्युलोके आ धावते शीघ्रं गच्छति । Baria. Wasith Ř RV. B försifor. Ai farefa. Cp forferl. Posteri P विदंति।. ३ RB विद्युती. We hit k VDr. x CP विधुतः।. ५ CP अस्य । ६ PC रोदसी इति IS' आंतरिक्ष्यासु. 25 on. °श्चन्द्रमाः, मृ गतौ।