पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०४.] ५४४ अष्टादशं काण्डम्। २४५ 1अत्र अस्मिन् पिण्डपितृयज्ञे ये पितरो यूयं स्थ देवता2वं प्राप्ताः स्य । आदरार्थं व्यतिहारेण पुनर्वचनम् । युष्मान अनुसृत्य ते अधिकत्वेन प्र- सिद्धाः पितरो वर्तन्ते । तेषां यूयं श्रेष्ठाः प्रशस्यतमा उपजीव्या भूयास्थ भवत । युष्मत्प्रसादात् तेषां पिण्डांशभागित्वात् ॥ इह अस्मिन यज्ञे [ये] पितरः पितृत्वेन संभावितास्तेषां श्रेष्ठा भूयास्येति संबन्धः । इह अस्मिन् लोके वयं पिण्डदातारो जीवाः जीवनवन्तः आयुष्मन्तः स्मः । अस्मान् अनुसृत्य ते प्रसिद्धाः समानवयोवंशविद्या3धना वर्तन्ते । तेषां श्रेष्ठा भू- यास्म । इति पिण्डेषावाहितान् पितॄन् उपतिष्ठेत ॥ आ त्वाग्न इधीमहि द्युमन्तं देवाजरम् । यद् घ सा ते पनीयसी समिद् दीदयति धवि । इषं स्तोतृभ्य आ भर ॥1॥ आ । त्वा । अग्ने। इधीमहि । द्युऽमन्तम् । देव । अजरम् । यत् । घ । सा । ते । पनीयसी । समऽइत । दीदयति । द्यवि । इषम् । स्तोतृऽभ्यः । आ । भर ॥४॥ नवमी ॥ हे देव द्योतमान हे अग्ने धुमन्तम् दीप्तिमन्तम् अजरम् जरारहितं त्वा त्वाम आ इधीमहि समिधा अभिमुखं समिधीमहि दीपया- म-। इन्धेर्लिङि बाहुलकात् नमो लुक् । “अनिदिताम्" इति धातु- नकारलोपः।यत् । सुपो लुक्। यस्य ते तव । घेति पूरणः । सा प्रसिद्धा पनीयसी।पनतिः स्तुतिकर्मा । स्तुत्यत्तरा समित् सम्यक् प्रकाशिका दीप्तिः द्यवि । र धोशब्दाद् ओकारान्तात् सप्तम्येकवचनम् । दिवि अन्तरिक्षे दीदयति दीप्यते । दी- देतिर्दीप्तिकर्मा। हे अग्ने समिधा समिध्यमानस्त्वं स्तोतृभ्यः स्तुति- १ BR त्वा अग्न. De त्या अग्न changeel to त्याग्न. We with CV D. We with CÊRVDE. BC afarianif. We with ÄR V D. x So we divile with ABCKRV De and the Sarrdrukrumani. " CP artal. 28 दैवतात्वे. 38 विद्याना for विद्याधना. मः। २B द्युमंत. 18 तत्र.