पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

घञ्॥ २४४ अथर्वसंहिताभाष्ये नमो वः पितरः स्वधा वः पितरः ॥ १५ ॥ नमः । वः । पितरः । स्वधा । वः । पितरः ॥ ५ ॥ एते मन्त्रा निगदव्याख्याताः । एतैर्मन्त्रैः पितृणां नमस्कारः प्रतिपाच- ते ।1 “नमस्करोति । नमस्कारो हि पितॄणाम्" इति श्रुतेः [नै ब्रा०१. ३.१०.] । नमस्कारस्य फलप्रतिपादकानि ऊर्जे इत्यादीनि । यद्वा पितृभियुप्माभिर्दीयमानाय ऊर्जे नम इति । एवम् उत्तरत्र । ऊर्जे अ- न्नाय रसाय अन्नरसाय ॥ भामाय ।भाम क्रोधे । अस्माद् पञ् ।। क्रोधाय । अत्र पितृसंबन्धी क्रोध एव नमस्कार्यः । तथा अ. न्यत्र समाम्नायते । “नमस्ते रुद्र मन्यवे” इति [सं० ४. ५.१.१] । मन्युः मानसः क्रोधविशेषः ॥ घोरम् अहितकारिणां भयंकरं रूपं तस्मै नमः । क्रूरम् हिंस्रं रूपं तस्मै नमः ॥ शिवम् मङ्गलं रूपं स्योनम् सुखप्रदं तस्मै च नमः नमस्कारोस्तु ॥ हे पितरः वः युष्मभ्यं नमः । हे पितरः वः युष्मभ्यं स्वधा स्वधाकारेण इदं हविर्हुतम् अस्तु । षष्ठादिमन्त्रपाठस्तु येत्र पितरः पितरो येत्र यूयं स्थ युष्मांस्तेनु यूयं तेषां श्रेष्ठा भूयास्थ ॥ 86॥ ये। अत्र । पितरः । पितरः । ये । अत्र । यूयम । स्थ । युष्मान् । ते । अ- नु । यूयम् । तेषाम् । श्रेष्ठाः । भूयास्थ ॥ 86 ॥ य इह पितरो जीवा इह वयं स्मः। अस्मांस्तेनु वयं तेषां श्रेष्ठो भूयास्म ॥87॥ ये। इह । पितरः । जीवाः । इह । वयम् । स्मः ॥ अस्मान । ते' । अनु। वयम् । तेषाम् । श्रेष्ठाः । भूयास्म ॥87॥ १ B ये पितरं पितरो यत्र यूयं स्यं 1. A येत्र पितरः पितरो येत्र यूयं स्य!. KK ये पितरः पितरो येत्र यूयं स्थं 1. C ये पितरः पितगे ये यूयं स्थ।. B ये पितरः पितरो येत्र पूर्य . De ये पितरः पितरो येत्र यूयं स्थ corrected to ये पितरः पितरो येत्र यूयं स्प।. CP ये । अब। पि- तरः । पितरः । ये । अत्र । स्थ । युष्मान् । ते । अनु । युयम् । तेषाम् । श्रेष्ठः । भूयास्त ।. We with the l'anchantedika and the Survinukramani. So we livide With ABK CR. See Rw. D वयं स्म: corrected to चयं स्मः ।. ३Cr ते । 18 नमस्कारोति.