पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०४.] ५४४ अष्टादशं काण्डम्। २४३ वि द्युलोके सीदद्भ्यः । x “तत्पुरुषे कृति बहुलम्" इति सप्त- म्या अलुक् । पूर्ववद् उत्तरपदस्य मूर्धन्यादेशः४ ॥ [इति ] चतुर्थेनुवाके अष्टमं सूक्तम् ॥ "नमो वः पितरः” इति अष्टभिर्यजुर्मन्त्रैर्बर्हिषि पिण्डेषु आवाहि-1 तान् पितृन् उपतिष्ठेत । सूत्रितं हि । “नमो वः पितरः [१] इत्यु- 'पतिष्ठते । अक्षन् [६१]2 इत्युत्तरंसिचम् अवधूय परा यात [६३] इति "परायापयति" इति [को०११.९] ॥ तत्रैव कर्मणि “आ त्वाग्ने" इत्यनया समिधम् आदध्यात् । “समि- धोभ्यादधाति" इति प्रक्रम्य सूत्रितम् । “त्वमग्न ईळिंतः [१६.३.४२ ] आ त्वाग्न इधीमहि [१६.४.८]" इति [को०११.१०] ॥ "वारुणीं जलभये जलसंक्षये [च]" इति [न क० १७.] विहितायां व- रुणदेवत्यायां महाशान्तौ “चन्द्रमा अप्स्वन्तरा" इत्येनाम् ऋचम् आवपेत् । उक्तं हि नक्षत्रकल्पे । “यद् देवा देवहेळंनम् [६.११४.१] इति याम्याया चन्द्रमा अप्स्वन्तरा [१४.४.४९] इति वारुण्याम्" इति [न क°१६.] ॥ मन्त्रपाठस्तु नमो वः पितर ऊर्जे नमो वः पितरो रसाय ॥१॥ नमः । वः । पितरः । ऊर्जे । नमः । वः । पितरः । रसाय ॥१॥ नमो वः पितरो भामाय नमो वः पितरो मन्यवे ॥१२॥ नमः। वः । पितरः । भामाय । नमः । वः । पितरः। मन्यवै ॥१२॥ नमो वः पितरो यद् घोरं तस्मै नमो वः पितरो यन क्रूरं तस्मै ॥ ३ ॥ नमः । वः । पितरः । यत् । घोरम् । तस्मैं । नमः । वः । पितरः । यत् । क्रूरम् । तस्मै ॥३॥ नमो वः पितरो यच्छिवं तस्मै नमो वः पितरो यत् स्योनं तस्मै ॥४॥ नमः।। पितरः । यत । शिवम् । तस्मै । नमः । वः । पितरः । यत् । स्योनम् । तस्मै ॥४॥ 23 °त्युत्तरस्य समवधूय for °त्युत्तरसिचम् अवधूय. 18 अधाहता.