पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४२ अथर्वसंहिताभाष्ये "एतां वाव प्रजापतिः प्रथमां वाचं व्याहरद् एकाक्षरद्व्यक्षरां ततेति ता. तेति । तयैव तत् ततवत्या वाचा प्रतिपद्यते” इति [ऐ• आ°१.३.३] । अतः प्रशस्तत्वात् ततेति आम्नातम् । आश्वलायनेन तु स्वपित्रादीनां नाम- धेयान्य1जानानः पुत्रस्ततशब्दं प्रयुञ्जीतेति सूत्रितम् । “नामान्यविद्वांस्ततपि- तामहप्रपितामहेति" [इति । आश्व०२.६] । ततामहमततामहेत्यर्थः । यद्वा देवानां परोक्षनामप्रियावात ततेत्यादिना परोक्षनाम्ना व्यवहारः । अथ वा पितृलोकं प्राप्ताः सर्वेपि पितरः । तत्र शृङ्गग्राहिकया स्वजनकादीनाम् आह्वानाय ततेतिशब्दप्रयोगः । हे प्रततामह प्रपितामह तुभ्यम् एतत् पिण्डलक्षणं हविः स्वधाकारेण दतम् अस्तु । ये च पितरः भार्यापुत्रादयः पितरस्त्वाम् अनुसृत्य वर्तन्ते तेभ्योपि स्वधास्तु । ते च अत्र अंशभागि- नो भवेयुरिति ॥ एवम् उत्तरौ मन्त्रौ व्याख्येयौ । हे ततामह पितामह । हे तत पितः । अत्र तृतीये मन्त्रे पिण्डप्रदातरि पुत्रे जीवति सति अ- नुगामिनाम् अन्येषाम् अभावाद् ये च त्वाम् अनु इति मन्त्रशेषो ना-2 म्नात: ॥ अष्टमादिमन्त्रास्त्रय एवम् आम्नायन्ते। स्वधा पितृभ्यः पृथिविषद्भ्यः ॥ 78 ॥ स्वधा । पितृऽभ्यः । पृथिविसतऽभ्यः ॥ 78 ॥ स्वधा पितृभ्यो अन्तरिक्षसद्भ्यः ॥ ७९ ॥ स्वधा । पितृऽभ्यः । अन्तरिक्षसतऽभ्यः ॥ ७९ ॥ स्वधा पितृभ्यो दिविषद्भ्यः ॥ ४० ॥ (२७) स्वधा । पितृऽभ्यः । दिविसतऽभ्यः ॥ १०॥ (२७) पृथिविषयः पृथिव्यां सीदद्भ्यः । 8 पूर्वपदस्य ह्रस्वत्वं छान्दसम् । पूर्वपदात्" इति षत्वम् । पितृभ्यः स्वधा । इदं हविः स्व- धाकारेण हुतम अस्तु ॥ एवम् उत्तरौ व्याख्येयौ । दिविषयः दि- RRD fryrittº. We with CKV. 18'न्यजमानानः 28 नाम्ना.