पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४१

[अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । पितृभ्यः सोमवद्भ्यः स्वधा नमः ॥ ७३ ॥ पितृऽभ्यः । सोमवत्ऽभ्यः । स्वधा । नमः ॥ ७३ ॥ यमाय पितृमते स्वधा नमः ॥ ७४ ॥ यमाय । पितृऽमते । स्वधा । नमः ॥ ७४ ॥ दैवहविःप्रापकोग्निः हव्यवाहनः । पित्र्यहविःप्रापकोग्नि कव्यवाहनः । तत्र कव्यवाहनाय कव्यं पित्र्यं हविः । तद्वहते पितृन् प्रापयते । क- व्योपपदाद् वहेञ्र्युट् प्रत्ययः । ञित्वाद् उपधावृद्धिः । तस्मै अ- ग्नये स्वधा स्वधाकारेण इदं हविः हुतम् अस्तु नमः नमस्कारोस्तु । स्वहाकारवषट्कारप्रदाना हि देवाः । स्वधाकारनमस्कारप्रदानाः खलु पितरः । स्वाहाकारवषट्कारौ विकल्पितौ । स्वधानमःशब्दौ समुच्चितौ1 । "स्वधा नम इति वषट्करोति । स्वधाकारो हि पितॄणाम" इति तैतिरी- यकश्रुतेः [तै ब्रा० १. ६.९.५] । “नमःस्वस्तिस्वाहा” इति अग्नय इति चतुर्थी x ॥ एवम् उत्तरे मन्त्रा योज्याः । सोमस्य पि- तरो विशेषणभूताः सोमो वा पितॄणां विशेषणम् ॥ पिण्डप्रदानमन्त्र्वा एवम् आम्नायन्ते । एतत् ते प्रततामह स्वधा ये च त्वामनु ॥ ७५ ॥ एतत् । ते । प्रतितामह । स्वधा । ये । च । त्वाम् । अनु ॥ ७५ ॥ एतत् ते ततामह स्वधा ये च त्वामनु ॥ ७६ ॥ एतत् । ते । ततामह । स्वधा । ये । च । त्वाम् । अनु ॥ ७६ ॥ एतत् ते तत स्वधा ॥ ७७ ॥ एतत् । ते । तत । स्वधा ॥ ७७ ॥ हे प्रततामह प्रपितामह । ततशब्दः पितृवचनः । सृष्ट्यादौ हि प्रजा- पतिना स्वजनकाहानार्थ ततेति तातेति व्याहृतम् । तथा च ऐतरेयकम १ Kc R एतसे ततः. D एतत्ते ततः changed to एतत्से तत. We with V De Ce. 18 समुतौ.