पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

66 “ २४० अथर्वसंहिताभाष्ये राजन् वरुण त्वया गुपिताः रक्षिताः पूर्व पालिता रक्षमाणाः । य- गभावश्छान्दसः । रक्ष्यमाणा इतः परमपि पाल्यमाना वयं श- तानि शरदम् शरदः । "कालाध्वनोः" इति द्वितीया ।ब - हुवर्षपर्यन्तं जीवेम जीवनवन्तः स्याम ॥ [इति ] चतुर्थेनुवाके सप्तमं सूक्तम् ॥ पिण्डपितृयज्ञे “अग्नये कव्यवाहनाय” इति त्रिभिर्मन्त्रैः "स्वधा पितृ- भ्यः पृथिविषद्भ्यः” इति अष्टमनवमदशमैश्च त्रिभिः स्थालीपाकं जुहुयात् । सूत्रितं हि । “ये रूपाणि" इति प्रक्रम्य “कुम्भीपाकम् अभिधारयति । "अग्नये कव्यवाहनायेति जुहोति । यथा निरुप्तं द्वितीयां यमाय पितृमते 'स्वधा पितृभ्य इति तृतीयाम्" इति [को० ११.९] ॥ निर्वापप्रकारस्तु एवं कौशिकेन [उक्तः] । “यज्ञोपवीती दक्षिणपूर्वम् अन्तर्देशम् अभि- 'मुखः शूर्प एकपवित्रान्तर्हितान् हविष्यान् निर्वपति इदम् अग्नये कव्य- वाहनाय स्वधा पितृभ्यः पृथिविषद्भ्यः इति । इदं सोमाय पितृमते स्वधा पितृभ्यः सोमवद्भ्यः पितृभ्यो वान्तरिक्षसद्भ्यः इति । इदं यमाय पितृमते स्वधा पितृभ्यश्च दिविषद्भ्यः” इति [को०११..] ॥ पिण्डपितृयज्ञ 1एव "एतत ते प्रततामह स्वधा” इति पञ्चमषष्ठसप्त- मैर्मन्त्रैर्बर्हिषि त्रीन् पिण्डान् संहितान् निदध्यात् । सूत्रितं हि । “उ- 'बद्धृत्याज्येन संनीय त्रीन् पिण्डान् 2संहितान् निदधाति एतत् ते प्रतता- 'महेति" [इति कौ ११.९.] ॥ एतत् सूक्तं सर्वं यजुर्मन्त्रात्मकम् ॥ तत्र प्रथमादितो मन्त्रचतुष्टयपाठस्तु अग्नये कव्यवाहनाय स्वधा नमः ॥ ७१ ॥ अग्नये । कव्यऽवाहनाय । स्वधा । नमः ॥ ७१ ॥ सोमाय पितृमते स्वधा नमः ॥ ७२ ॥ सोमाय । पितृऽमते । स्वधा । नमः ॥ ७२ ॥ 18' यज्ञमेव यज्ञ एव. 250S Katus ikke : संहतान्. 66 “ 66