पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०४.] ५४४ अष्टादशं काण्डम् 1 २३९ एषा पुरस्ताद् व्याख्याता [७.६.३] । वरुणपाशास्त्रिविधा उत्तमा- धममध्य1मभेदेन । तत्र हे वरुण त्वदीयम् उत्तमं पाशम् अस्मत् अ- स्मतः उत् अथाय ऊर्ध्वम् उन्मोचय । अधमम् निकृष्टं पाशम् [अव श्रथाय] अवस्ताद् मोचय । मध्यमं तु पाशं [वि श्रथाय] विश्लेष- य।अन्य प्रतिहर्षविमोचनयोः । क्रैयादिकः । “छन्दसि शायज- पि" इति हो2 शायजादेशः ॥ अर्थ अनन्तरं विमुक्तपाशा वयम् हे आदित्य अदितेः पुत्र वरुण तव व्रते कर्मणि परिचरणरूपे अना- गसः निर्दोषाः प्रायवायरहिताः सन्तः अदितये अखण्डनाय अहिंसायै स्याम इति संग्रहार्थः । दो अवखण्डने । क्तिनि 'द्यतिस्यतिमा- स्यामित् ति 3किति" इति इत्त्वम् ॥ दशमी ॥ प्रास्मत् पाशान् वरुण मुञ्च सर्वान् यैः समामे बध्यते यैर्व्यामे । अधा जीवेम शरदं शतानि त्वया राजन् गुपिता रक्षमाणाः ॥ ७० ॥(२६) प्र । अस्मत् । पाशान् । वरुण । मुञ्च । सर्वान् । यैः । समऽआमे। बध्य- ते। यैः । विऽआमे। अध। जीवेम।शरदम्।शतानि। त्वया । राजन् । गुपिताः। रक्षमाणाः ॥७०॥ हे वरुण वारक देव पाशान् वक्ष्यमाणान् बन्धनसाधनभूतान् सर्वान् अस्मत् अस्मत्तः प्र मुञ्च प्रमोचय । यैः पाशैः समामे ब4ध्यते पुरुषः व्यामे च यैर्बध्यते । व्यामो नाम "व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यग- न्तरम्" इत्येवंविहितप्रमाणकः प्रदेशः । पञ्चारत्निर्व्याम इति याज्ञिकाः । समामो नाम व्यामसंज्ञितमदेशात् संकुचितप्रमाणको देशः । संनिहिते प्रदेशे दूरे प्रदेशे [च] इति यावत् ॥ अध अथ पाशमोचनानन्तरम् हे २K समाने. We with BC R De. ३ k बध्यते. De बध्यते channel 10 बध्यते. Cr बध्यते ।. We with C R Dr. * K TET:. We with ABCRÓPD. 4 Cu tratar. PÝ yfirati. Wc with Cr. IS मध्य. 28 हे.38 कति for किति ध्यते for वध्यते. १. प्रास्म.