पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३ अथर्वसंहिताभाष्ये बान्धवाः पुत्रादीना शिरःप्रभृतीन्यङ्गानि शीतातपवातनिवारणाय वाससा- च्छादयन्ति एवम् । यद्वा जामिशब्दः स्त्रीमात्रपरः । यथा स्त्रियः ककु- त्स्थलम् । ग्रीवापरभागः ककुत् । स्वकन्धरप्रदेशं वाससा पोर्णुवन्ति तद्वत् ॥ सप्तमी । द्विपदा ॥ शुम्भन्तां लोकाः पितृषद॑नाः पितृषदने वा लोक आ सादयामि ॥६७॥ शुम्भन्ताम् । लोकाः । पितृऽसदनाः । पितृऽसदने । वा । लोके । आ । सा- दयामि ॥ ६ ॥ हे प्रेत तव पितृसदनाः पितरः सीदन्ति अत्र इति पितृसदना लो- काः शुम्भन्ताम् प्रकाशन्ताम् । ४ शुभ शुम्भ शोभायाम् । तौदा- दिकः ।अहं संस्कर्ता पितृसदने पितृभिरधिष्ठिते लोके त्वा त्वाम् आ सादयामि स्थापयामि ॥ एकपदाष्टमी ऋक् एवम् आम्नायते । [अष्टमी ॥] येस्माकं पितरस्तेषां बर्हिरसि ॥ ६ ॥ ये। अस्माकम् । पितरः । तेषाम् । बर्हिः । असि ॥ ६ ॥ ये अस्माकं पितरः पितृत्वं प्राप्ताः पूर्वजास्तेषां बर्हिः आसदनस्थानम् असि भवसि । इति पिण्डदानार्थ स्तीर्यमाणं बर्हिः संबोध्यते ॥ नवमी॥ उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय । अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥ ६९ ॥ उत् । उतऽतमम् । वरुण । पाशम् । अस्मत् । अव । अधमम् । वि । म- ध्यमम् । श्रथय। अर्ध । वयम् । आदित्य । व्रते। तव । अनागसः । अदितये । स्याम ॥ ६९ ॥ १ BA 9 10 ३. D: येस्माकं corrected from ये स्मार्क.