पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । २३७ प्र। अदाः। पितृऽभ्यः । स्वधया । ते । अक्षन् । अद्धि । त्वम् । देव । प्रऽ- यता। हवींषि ॥६५॥ [सायं न्वह्ने सायं प्रातः नृभिरुपवन्द्यः मनुष्यैरुपासनीयो जातवेदाः ज्ञातानां वेदिताग्निः दूतः प्रहितोभूत् दूतत्वे नियुक्तः सन् प्रेषितोभूत् अस्माभिः पितॄन् मति ॥ अथ प्रत्यक्षनिर्देशः । हे अग्ने एतादृशस्त्वं पितृभ्यः प्रादाः अस्माभिः प्रयतानि हवींषि प्रयच्छ । ते पितरः स्वधया अक्षन् स्वधाकारेण दत्तानि हवींषि भक्षयन्तु । अनन्तरम् हे देव अग्ने त्वमपि प्रयता1 प्रयतानि तुभ्यमेव दत्तानि हवींषि अद्धि भक्षय ।अ- द भक्षणे । प्राप्तकाले लोट् । पित्रर्थे त्वदर्थ च अस्माभिस्त्वयि हुतानां हविषां पितृभ्यः प्रदानानन्तरं तावकीनहविर्भक्षणस्य कालः प्राप्त इति यावत् ॥ षष्ठी ॥ असौ हा इह ते मनः ककुत्सलमिव जामयः । अभ्ये नं भूम ऊर्णुहि ॥ ६६ ॥ असौ । है । इह । ते । मनः । ककुत्सलमऽइव । जामयः । अभि । एनम् । भूम । ऊर्णुहि ॥ ६६ ॥ असौ इति प्रेतस्य संबोधनम् । हे अमुकनामधेय प्रेत ते तव मनः इह अस्मिन् प्रसव्य2म् इष्टकचिते प्रदेशे वर्तते । हाँ संतोषे ॥ हे भूमे चितश्मशानदेश एनम् अन्वादिष्टम् अत्रैव अवतिष्ठ3मानं प्रेतम् अभ्यू- र्णुहि अभितः सर्वत आवृणु आच्छादय । तत्र दृष्टान्तः । जामयः भ- गिन्यः । उपलक्षणम् एतत् । आता बान्धवाः ककुत्स्थलमिव । ककु- च्छब्दः प्रधानवाची । प्रधानावयवप्रदेशमिव । यथा मात्रादय आप्ता S0 ABC RPC De. KRöth. We with C De. ३ भुम ऊMहि. We with RC De. 1 S omits as much of the commentary of the previous and of this mantra as is cnclosed within brackets and the whole of the text of the latter. The commentary which is supplied is from guessing. 28 प्रसव्याम्.35 अवतिष्ठासमानं.