पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३६ अथर्वसंहिताभाष्ये "यद् वो अग्निः' इत्यनया चितिस्थानाद् विप्रकीर्णं प्रेतावयवं पुनर- ग्नौ प्रक्षिपेत् । सैषा सूक्ते चतुर्थी॥ यद् वो अग्निरजहादेकमङ्ग पितृलोकं गमयञ्जातवेदाः। तद् व एतत् पुनरा प्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम् ॥६४॥ यत् । वः । अग्निः । अजहात् । एकम् । अङ्गम् । पितृडलोकम् । गमयन् । जातऽवेदाः। तत् । वः । एतत् । पुनः । आ । प्याययामि । सऽअङ्गाः । स्वःऽगे। पित- रः । मादयध्वम् ॥ ६४॥ हे प्रेताः वः युष्मान् पितृलोकम् पितृभिरधिष्ठितं स्थानं गमयन् प्रा- पयन् जातवेदाः जातानां वेदिता पुण्यापुण्यकर्मणः यद्वा जातानां कर्म- फलस्य लम्भयिता प्रापयिता अग्निः प्रेतदाहकः यद् युष्मदीयम् एकम् अङ्गम् अजहात् त्यक्तवान् । चितेर्विप्रकीर्णम् अवयवं नादहद् इत्य- र्थः । .ओहाक त्यागे । जौहोत्यादिकः । [वः युष्माकं तद् एतत् पुरोवर्ति अङ्गम् अवयवं पुनरा प्याययामि अग्नौ प्रक्षेपेण प्रवर्धयामि । यूयं साङ्गाः संपूर्णावयवाः पितरो भूत्वा स्वर्गे मादयध्वम् मोदध्वम्] ॥

पञ्चमी॥ अभूद् दूतः प्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः । पादाः पितृभ्यः स्वधया ते अक्षन्नद्धि वं देव प्रयता हवींषि ॥ ६५ ॥ अभूत् । दूतः । प्रहितः । जातऽवेदाः । सायम् । निऽअह्ने। उपऽवन्धः। नृऽभिः। ? Buda. So we with BCARD. Cr. CRT. P उप । वंद्यः ।. Dc न्यह clhingcd to न्य. We with Do Bk.cp #. ३C अज़हात्।।