पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । २३५ तोराकारलोपः । अडागमः । यद्वा दध धारणे । भौवादिक आत्मनेप- दी । अत्र व्यत्ययेन परस्मैपदम् । अथ वा श्लुश्च शश्चेति विकरणव- यम् । शस्य ङित्त्वात् "श्नाभ्यस्तयोरातः" इति आकारलोपः। किं च नः अस्मान् रायः धनस्य पोषैः समृद्धिभिः अभि सचध्वम् अभि- तः समवेत । रविपोषेण अस्मान् संयोजयतेति ॥ तृतीया ॥ परा यात पितरः सोम्यासौ गम्भीरैः पथिभिः पूर्याणैः । अधा मासि पुनरा यात नो गृहान् हविरत्तुं सुप्रजसः सुवीराः ॥६३॥ परा । यात । पितरः । सोम्यासः । गम्भीरैः । पथिऽभिः । पूःऽयानैः । अध । मासि । पुनः । आ । यात । नः । गृहान् । हविः । अत्तुम् । सुऽ- प्रजसः । सुऽवीराः ॥ ६३ ॥ हे पितरः सोम्यासो यूयं पूर्याणैः पू: पुरं स्वीयः पितृलोकस्तं यानित 1एभिरिति पूर्याणास्तैः स्वपुरप्राप्तिसाधनैः गम्भीरैः पथिभिः परा यात इतः पराङ्मुखा यात स्वस्थानं गच्छत ॥ अध अथ अनन्तरं मासि मासे पूर्णे । अमावास्यायाम् इत्यर्थः । हविरत्नून् हविरदन्ति2 एषु गृहेष्विति ते हविरत्नवः तान् हविर्भक्षस्थानभूतान् नः अस्मदीयान् गृ- हान् पुनरा यात आगच्छत । किंविशिष्टान् । सुप्रजसः । प्रजा सं. ततिः पुत्रलक्षणा । शोभनपुत्रयुक्तान् । "नित्यम् असिच् प्रजा- मेधयोः" इति असिच् समासान्तः । सुवीराः । वीरः कर्मणि कुशलः पौत्रादिः । शोभनपौत्रादिसमेतान्। शप्तो जसादेशः। ए वं3विधान् गृहान् आ यात । पितॄणां वा विशेषणम् । 4शोभनप्रजसः सुवीराः सन्तः अस्मभ्यं पुत्रपौत्रादिलक्षणां संततिं दातुं पुनरायातेति संबन्धः ॥ Sâyama's gracias woulil perluupis require us to read orgfaceast. Only C has विररने सु. De हविरत्न. Cr हविः। अनुम् । changent to हविः । अत्तुम् ।. P हविः । अ- स्तुम् । " हविः । अत्लुम् ।. So that none real in conformity with the accent which Siyaņa’s reading implies. We with A BÄRV PC. Pa I. Ci sarai 13 येभि. 28 रदंतु.35 त्यधान् for विधान्. ।' शोभनप्रजावीराः.