पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

6 २३४ अथर्वसंहिताभाष्ये तः । अमीमदन्त । हिशव्दश्चार्थे । तिङ उत्तरत्वाद् नि- पाताभाव: । पिण्डभक्षणेन तृप्ताश्च अभूवन् ।मद तृप्ति- योगे । चुरादेरात्मनेपदिनश्चङि रूपम् । यद्वा हिशब्दो हेत्वर्थे । यतस्तृप्ता अतः प्रियान स्वकीयान् देहान् अवाधूषत अकम्पयन् । अ- तिशयितरसास्वादनेन 1गन्तुम् अशक्नुवन्तः शरीराण्येव अकम्पयन् । धू विधूनने । कुटादिः । लुङि सिच् । 'गाङ्कुटादिभ्यः" इति सिचो ङित्त्वाद् गुणाभावः । व्यत्ययेन आत्मनेपदम् । अनन्तरं स्वभान- वः स्वायत्तदीप्तयः पितरः अस्तोषत अस्ताविषुरस्मान् साधु कृतम् इ- ति । ष्टुञ् स्तुतौ । लुङि सिच् । “सार्वधातुकार्धधातुकयोः" इ. ति गुणः । एवं पिण्डभक्षणेन तृप्तान् पितृन् विप्राः मेधाविनो यविष्ठाः युवतमा वयम् ईमहे । याञ्जाकर्मा । याचामहे स्वेष्टानि फलानि । ईङ् गतौ । देवादिक आत्मनेपदी । श्यनो लुक् बाहुलकात् ॥ द्वितीया ॥ आ यात पितरः सोम्यासो गम्भीरैः पथिभिः पितृयाणैः । आयुरस्मभ्यं दधतः प्र॒जां च रायश्च पोषैरभि नः सचध्वम् ॥ ६२ ॥ आ । यात । पितरः । सोम्यासः । गम्भीरैः । पथिऽभिः । पितृऽयानैः । आयुः । अस्मभ्यम् । दधतः । प्रजाम् । च । रायः । च । पोषैः । अभि। नः । सचध्वम् ॥ ६२॥ हे पितरः सोम्यासः सोमार्हा यूयम् आ यात आगच्छत गम्भीरैः दुर्गमैः पितृयाणैः पितरो यान्ति एभिरिति तैः पथिभिः मार्गैः । आ- गत्य च अस्मभ्यं पिण्डदानार्थ 2स्तीर्णे बर्हिषि तिलान् विकिरभ्यः आयुः बहुकालजीवनं प्रजाम् प्रकर्षण जायमानां पुत्रपौत्रादिलक्षणां संतति च दधत धत प्रयच्छत ।

दधातेर्लेटि “घोर्लोपो लेटि" इति धा-
  • B truſt. \Ve with ACKRV De.

18' शक्तुम्. 2 स्तीर्ण.