पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" 66 “ [अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । २३३ आ यात पितरः इति [६२] ऋचा पिण्डदानार्थ स्तीर्णे बर्हिषि तिलान् प्रकिरेत् ॥ "परा यात" इति [६३] ऋचा पितृन् विसर्जयेत् ॥ पिण्डपितृयज्ञ एव अनया सांय1वनांस्तण्डुलान् जुहुयात् ॥ पिण्डपितृयज्ञे “अभूद् दूतः” इति [६५] ऋचा समिदाधानानन्तरं सर्वप्रणीतम् अग्निं प्रत्यानयेत् । सूत्रितं हि । 'अभूद् दूत इत्यग्निं "त्रिः प्रत्यानयति यदि सर्वः प्रणीतः स्यात् । दक्षिणानौ त्वेतद् आहि- "ताग्नेः । गृह्येप्यनाहिताग्ने-” इति [को०११.१०] ॥ "असौ हा इह ते” इति [६६] द्वाभ्यां श्मशानदेशं विषमसंख्या- काभिः शलाकाभिरिष्टकाभिर्वा प्रसव्यं चिनुयात् ॥ “येस्माकं पितरः” इति [६] अर्धर्चेन पिण्डप्रदानार्थं बर्हिः स्तृणीयात् ॥ "उदुत्तमम्" इति [६९] ऋचा शवदाहानन्तरं सर्वे ब्राह्मणाः स्नानं कुर्युः ॥ 'प्रास्मत् पाशान्” इति [७०] ऋचं पितृमेधे दशरात्रपर्यन्नं सायं- प्रातः स्वस्ययनार्थं [पठेयुः] ॥ तत्र प्रथमा॥ अक्षन्नमीमदन्त ह्यव मियाँ अधूषत । अस्तोषत स्वभानवो विप्रा यविष्ठा ईमहे ॥ ६१ ॥ अक्षन् । अमीमदन्त । हि । अव । प्रियांन् । अधूषत । अस्तोषत । स्वऽभानवः । विप्रा- । यविष्ठाः । ईमहे ॥ ६१ ॥ अत्र पितरः स्तूयन्ते । अक्षन् अघसन् बर्हिषि दतान् पिण्डान्। अ- द भक्षणे । “लुङ्गनोर्घस्लृ" इति घस्लादेशः । “मन्त्रे घस.” इति च्लेर्लृक् ।“गमहन” इति उपधालोपः । “शासिवसिघसीनां च" इति षत्वम् ।"खरि च” इति चर्त्वेन धकारस्य ककारः । कषयोगे क्षः ।'लुङ्लङ्” इति अडागम उदातः । पादादित्वाद् अनिघा- ! Rutit. Å v gatitzt. De tre for corrcetal to gratinat. Poubtful. अप्रियान् ।. C अप्रियान् ।. We witli CBV. 1 So S. MSS. of Kensiku auud Kos'ara (XI. 9): ARIFTO. 28°° ३०