पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३२ अथर्वसंहिताभाष्ये प्र। वै । एति । इन्दुः । इन्द्रस्य । निःऽकृतिम् । सखा । सख्युः । न ।। मिनाति । समऽगिरः। मर्यःऽइव। योषाः। सम्। अर्षसे। सोमः। कलशे। शतऽयामना। पथा ॥६०॥ पितृलोकाधिपतिः सोमः स्तूयते । इन्दुः स्पन्दमानः सोमः इन्द्रस्य निष्कृतिम् । जठरलक्षणं स्थानम् इत्यर्थः । वै प्रति प्र1गच्छति । वैश- ब्दः प्रसिद्धौ । "अस्मिन् यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुम् इन्द्र इति हि मन्त्रवर्णः [ऋ०३.३५.६] ॥ सखा सखेव हित- कारी सोमः सख्युः अभिषवस्तोत्रादिना सखिभूतस्य यष्टुः संगिरः सं- गीर्यमाणानि इदमेव फलं सोमादेव लभेय इत्येवं प्रतिज्ञायमानानि का- म्यमानानि वस्तूनि न प्र मिनाति न हिनस्ति मोघानि न करोति किं तु प्रयच्छति । यद्वा सखा सोमः सख्युः इन्द्रस्य संगिरः । ए- कवचनस्य बहुवचनम् आदेशः । संगिरम् । उदरम् इत्यर्थः । संगिरति 3निर्गिरति अत्र ओदनादिकम् इति व्युत्पत्तेः । न प्र हिनस्ति शून्यं न करोति । सर्वदा स्वेन पूर्णं करोतीत्यर्थः । xमीञ्4 हिं- सायाम् । “मीनातेर्निंगमे" इति ह्रस्वत्म् ४ ॥ मर्य इव मर्यो म- रणधर्मा मनुष्यः यथा योषा । तृतीयाया आकारः। यो- षया युवत्या संगच्छते एवं सोमः कलशे सोमाधारे द्रोणकलशे शतया- म्नां शतयानेन पथा मार्गेण समर्षसे । पुरुषव्यत्ययः ।श- मर्षते संगच्छते । ऋषी गतौ । भौवादिकः । व्यत्ययेन आत्म- उदकमिश्रितस्य सोमरसस्य दशापवित्रात् स्पन्दनसमये बहुधारासद्भावात् शतयाम्नेत्युक्तम् ॥ [इति ] चतुर्थेनुवाके षष्ठं सूक्तम् ॥ पिण्डपितृयज्ञे “अक्षन्नमीमदन्त" इति प्रथमया ऋचा पिण्डोपस्था- नानन्तरम् उत्तरपरिषेकं कुर्यात् ॥ १CP निःऽकृतिम् । २ 50 our pada-MSS. ३CP अर्षते ।. " अर्षते । 1% प्रयच्छति. 23 दुरम् for उदरम्. BS निगरति. 4S माङ्- स- नेपदम् ।