पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । २३१ निना तद्वतः करोति । यद्वा कलशान् अचिक्रदत कामयते ॥ ततः इ- न्द्रस्य सवनत्रये यष्टव्यस्य हार्दिम । हृदयम् इत्यर्थः । हृदयमेव हा- र्दिम्1 । पृथ्वादिषु पाठो द्रष्टव्यः । वार्थिकश्चमनिच् अवगन्त- व्यः । हृदययुक्तं जठरं वा मनीषया मनस ईषया यथामनोभि- लाषम् अविशंत प्रविशति । यद्वा मनीषया मननीयया इष्यमाणया धा- रया अविशत् ॥

नवमी॥

त्वेषस्तै धूम ऊर्णोतु दिवि षच्छुक आततः । सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥ ५९ ॥ त्वेषः । ते । धूमः । ऊर्णोतु । दिवि । सन् । शुक्रः । आऽततः । सूरः । न । हि । द्युता । त्वम् । कृपा । पावक । रोचसे ॥ ५९ ॥ अत्र प्रेताग्निः स्तूयते । हे प्रेताग्ने ते तव त्वेषः दीप्तो धूमः ऊर्णो- तु आच्छादयतु अन्तरिक्षं कर्म सर्वत्र मेघात्मना परिणतः । अथ वा त्वेषः. त्विष दीप्तौ । “अन्येभ्योपि दृश्यते” इति विच् प्रत्य- यः । लघूपधगुणः । द्वितीयाबहुवचनम् शस् । व्यत्ययेन अन्तोदात्त- त्वम् । दीप्तीः सूर्यस्य त्वदीयो धूम ऊर्णोतु । दिवि अन्तरिक्षे सन् भवन् शुक्रः 2शोचिष्मान् आततः विस्तीर्णः ॥ किं च हे पावक शो- धक दाहक प्रेताग्ने त्वं सूरो न सूर्य इव । हि इति पूरणः । द्युता दीप्त्या रोचसे दीप्यसे कृपा। तृतीयायाः पूर्वसवर्णदीर्घः । कृ- पया स्तुत्या सहितः । स्तूयमान इत्यर्थः ॥ दशमी॥ प्र वा एतीन्दुरिन्द्रस्य निष्कृतिं सखा सख्युर्न प्र मिनाति संगिरः। मर्य इव योषाः समर्षसे सोमः कलशे शतयामना पथा ॥ ६० ॥ (२५) १ ऊर्णोति 1. Cr अर्णोति। Pऊर्णोतु ।. २ CP नहि ।. ३ * संगिरः. D: संगिरः claung. al to fifTe:. We with BCRVDE x 80 BCËR V CPD. 13 हृदयमेवा 10 हृदयमेव हार्दिम.. शोचयिष्मान्.