पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३० अथर्वसंहिताभाष्ये र्थ मधुधारांः मधुप्रवाहान् व्युन्दती विशेषेण सिञ्चती अभिवर्षन्ती घृतस्य आज्यस्य कुल्या कृत्रिमा सरित् एतु तत्प्रीणनाय गच्छतु ॥ अष्टमी॥ वृषां मतीनां पवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः । प्राणः सिन्धूनां कलशाँ अचिक्रददिन्द्रस्य हार्दिमाविशन्मनीषया ॥५॥ वृषो । मतीनाम् । पवते । विऽचक्षणः । सूरः । अह्नाम् । प्रऽतरीता । उ. ष,ाम् । दिवः । प्राणः । सिन्धूनाम् । कलशान् । अचिक्रदत् । इन्द्रस्य । हार्दिम् । आऽवि- शन् । मनीषयां ॥ ५ ॥ पितृत्वं प्राप्ताः पुरुषा धूमादिमार्गेण पितृलोकं प्राप्य सोमयागादिज- नितसुकृतफलम् उपभुञ्जते । अतः अनया पित्र्यप्रकरणे सोमः स्तूयते । मतीनाम् मन्तॄणां स्तोतॄणां वृषा वर्षिता अभिमतफलवर्षकः मती- नाम् स्तुतीनां वा वर्षकः स्तुतिविषये1 विचक्षणः विशेषेण द्रष्टा स- र्वस्य सर्वैर्वा द्रष्टव्यः सोमः पवते । पवतिर्गतिकर्मा । ग- च्छति दशापवित्रात् स्यन्दते । यद्वा । पूञ् पवने । व्यत्ययेन क- र्मणि कर्तृप्रत्ययः शप् । पूयते शोध्यते अध्वर्युभिः । अह्नाम् । अहोरात्राणाम् इत्यर्थः । सूरः प्रेरयिता निष्पादयिता । पू प्रेरणे औणादिको रक् प्रत्ययः । उषसाम् उषःकालानां दिवः द्युलो- कस्य च प्रतरीता प्रवर्धयिता । *तरतेस्तृचि “वृतो वा" इति इ- डागमस्य दीर्घः। सिन्धूनाम स्यन्दमानानां वसतीवरीणाम अ- पां प्राणः प्राणभूतः स्वात्मरूपत्वेन् कर्ता सोमः कलशान् द्रोणकलशपूत- भृदावनीयान् ऐन्द्रवायवादिग्रहान् वा । अभिलक्ष्य इत्यध्याहारः । अ- चिक्रदत अत्यन्तं शब्दायते । अथ वा कलशान् अचिक्रदत् धारापातध्व- १० प्रतरीता उपसौ. R प्रतरीत उषसौ. D प्रतरीत उघसी corrected to प्रतरीतोषसौ. PP esattat: 1. Crusader: 1. We with ABÃV De. प्रेरणे। IS .