पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४ सू०४.] ५४४ अष्टादशं काण्डम् । २२९ इदम् । हिरण्यम् । बिभृहि । यत् । ते । पिता । अबिभः । पुरा। स्वःऽगम् । यतः । पितुः । हस्तम् । निः । मृड्डि । दक्षिणम् ॥ ५६ ॥ हे प्रेत इदं हिरण्यम् सुवर्णनिर्मितम् अङ्गुलीयं पिपृहि पूरय । आ- ज्येन अभिधारयेत्यर्थः । पृ पालनपूरणयोः । जौहोत्यादिकः । "अतिपिपत्र्योश्च" इति अभ्यासस्य इत्त्वम् । यत् हिरण्यं ते तव पिता पुरा पूर्वम् अबिभः भृतवान् हस्ते धारितवान् । डुभृञ् धारणपोषणयोः । [शपः] नुः । “भृञाम् इत" इति अभ्यासस्य इ- त्त्वम् । तिपि धातोर्गुणे "हल्ड्या" इत्यादिना तिपो लोपे विसर्जनी- यः । स्वर्गम् सुखेन गन्तव्यं कर्मार्जितं लोकं यतः गच्छतः पितुः जनकस्य दक्षिणं हस्तं निर्मृड्डि निर्मार्जय शोधय । हिरण्यस्य दक्षिणहस्ते धारणात् तस्य प्रमार्जनम् । मृजेः आदादिकात् लोटि हित्वधि- त्वादिकार्याणि ॥ सप्तमी॥ ये च जीवा ये च मृता ये जाता ये च यज्ञियाः । तेभ्यो घृतस्य कुल्यैतु मधुधारा व्युन्दती ॥ ५७ ॥ ये। च । जीवाः । ये। च । मृताः । ये । जाताः । ये। च । यज्ञियाः । तेभ्यः । घृतस्य । कुल्या । एतु । मधुऽधारा । विऽउन्दती ॥ ५७ ॥ ये जीवाः जीववन्तः ये मृताः परासवः । समुञ्चयार्थाश्चकाराः । ये जाताः जनिमन्तः उत्पन्नाः ये र्जज्ञियाः जनिष्यमाणाः जज्ञिम् उत्पत्तिं यान्ति गच्छन्तीति जज्ञियाः । जनी प्रादुर्भावे । “आदृगम- हनजनः" इति किमत्ययः । लिड्घद्भावाद् द्विर्वचनादि कार्यम् । ज- ज्ञिपदोपपदाद् यातेर्विच् प्रत्ययः । तेभ्यः जीवादिभ्यः सर्वेभ्यस्तद- . See foot-note २ on the previous page. २ BK CV Dc कुल्यैतु. We with R Cr. ३ B मधुधारा. CV मधुधारा. Dc मधुधारा corrected to मधुधारी. Cr मधुऽधारा chang- ed to मधऽधारा।. We with kB. Y PP कुलमा।. Cr कुल्या ।