पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२९ अथर्वसंहिताभाष्ये यमं हविर्भिरर्चत प्रीणयत । अर्चतिर्भौवादिकः । स यमः नः अस्मान् प्रतरम् प्रकृष्टं जीवसे जीवनाय धात् विदधातु । अयम् अर्धर्चः पूर्वानुवाके व्याख्यातः [१६.३.६३.] ॥ पञ्चमी ॥ यथा यमाय हर्म्यमवपन् पञ्च मानवाः ।। एवा वपामि हर्म्यं यथा मे भूरयोडसत ॥ ५५ ॥ यथा । यमाय । हर्म्यम् । अवपन् । पञ्च । मानवाः । एव । वपामि । हर्म्यम् । यो । मे । भूरयः । असत ॥ ५५ ॥ पञ्च पञ्चसंख्याका मानवाः मनोरपत्यादिजनाः । निषादपञ्चमाश्चत्वा- रो वर्णाः पञ्च जना इति हि यास्कः [नि°३.] । अथ वा देवमनु- ष्यादयः पञ्च जनाः । तथा च ऐतरेयकब्राह्मणे समानायते । “सर्वेषां वा "एतत् पञ्चजनानाम् उक्थं देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणां “च । एतेषां वा एतत् पञ्चजनानाम् उक्थम्" इति [ऐ ब्रा०३.३१] । एते पञ्च जना यथा येन प्रकारेण यमाय प्रेताधिपतये हर्म्यम् निवास- स्थानं सौधम् अवपन् निर्मितवन्तः एष एवं हर्म्यम् स्थानम् उन्नतं पितृ- गृहम् आंवपामि मृतिकया संपादयामि प्रेतनिवासार्थ विदधामि । यथा येन प्रकारेण मे मदीया बान्धवा यूयं भूरयः बहवः असत स्यात । प्रेतो1न्नतस्थानाकरणे बान्धवानां प्रत्यवायो भवतीति उन्नत2पितृगृहकर- णम् । अस्तेर्लेटि अडागमः ॥ षष्ठी ॥ . इदं हिरण्यं बिभृहि यत् ते पिताबिभः पुरा। स्वर्गं यतः पितुर्हस्तं निर्मृड्ढि दक्षिणम् ॥ ५६ ॥ १ ABC KR V D• °सतः. PF असतः 1. We with Cr. २kपितु.. D पितु (correctel re) पितु. Co पितुः।. We with R V. ३K निर्मेडि दक्षि. We with CR VDe. 18 प्रेतथोनाकरण. 2Shusabunk space for alrmt four letters instead ol उन्नतपि.