पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰ ४. सू० ४.] ५४४ अष्टादशं काण्डम् । २२७ त्वान्तरभूतः शरीरधारकोष्टमधातुर्वा आ अगन् । सकलचरुपिधायकः पलाशपणे: अस्माकम् उर्जबलाद्यात्मक एव आगच्छतु । यद्वा ऊर्जो ब- लम् 1इत्यादीनि द्वितीयान्तानि पदानि । अन्नादीनि दातुम् आगच्छतु इति क्रियाध्याहारेण योज्यम् । गमेर्लुङि च्लेर्लुक् ॥ न केवलम् अन्नादिदानं किं नु जीवेभ्यः जीवनवद्भ्यः अस्मभ्यम् आयुः जीवनं [विद- धत् ] विदध्यात् प्रयच्छतु। दधातेर्लेटि शुः । “घोर्लोपो लेटि वा" इति धातोः आकारलोपः । “लेटोडाटौ" इति अडागमः । श- तशारदाय । शरच्छब्दः संवासरवाची । शतसंवत्सरपरिमिताय । उ- तरपदवृद्धिश्छान्दसी । दीर्घायुवाची दीर्घायुष्ट्वाय । पृषोद- रादित्वाद् अन्त्यलोपः ५ । चिरकालजीवनाय ॥ चतुर्थी ॥ ऊजों भागो य इमं जजानाश्मांन्नानामाधिपत्यं जगाम। तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥ ५४॥ ऊर्जः। भागः । यः । इमम् । जजान । अश्मा । अन्नानाम् । आधिऽप- त्यम् । जगाम। तम् । अर्चत । विश्वऽमित्राः । हविःऽभिः । सः । नः । यमः । प्रऽतरम्। जीवसे । धात् ॥ ५४॥ ऊर्जः अन्नस्य अस्थिसमीपस्थापितचरुलक्षणस्य भागः संभक्ता। एक- र्तरि व्यत्ययेन धञ् । यो यमः इमं प्रेतं जजान जनयामास । येन2 च यमेन अश्मा यमदेव3त्यचरुपिधायकः पाषाणः अन्नानां चरू- णाम् आधिपत्यम् अधिपतित्वम् उपर्यवस्थायित्वं जगाम प्राप्तवान् । हे विश्वमित्राः विश्वं मित्रं येषां ते सकलोपकारिजनवन्तो हे बान्धवाः तं kभार्ग. We with A BC RV DO. २ श्वानामधिपत्यं जगाम. B°श्मानानामा- धिपत्यं जगाम. Vश्मानानामधिपत्यं जगाम. Do °श्मानामाधिपत्यं जगाम corrected to °इमा- मानामधिपत्यं जगाम. We with AC R. ३ 80 we with BCK RV Dr. ४ Cr अधिऽप- त्यम् ।. Pअधिपत्यम् ।. P आधिपत्यम् ।. ५C जगाम् । 18 इत्यादि. 2S has here a blunk -pace of two or three letters in place of येन च यमेन अ. 38 देवेभ्यः चरु.