पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२६ अथर्वसंहिताभाष्ये देर्लृदित्वात् च्लेः अङ् ॥ अतो मेध्यः पितृमेधयज्ञार्हः अभूः । द- हनेन संस्कृतोभूरिति यावत् ॥ प्रति त्वेति पादो व्याख्यातः । जान- न्त्विति लोडन्तं पदं भूतकालपरतया व्याख्येयम् । अथ [वा] क्रिय- माणास्थिसंचयनार्थम् अनुजानन्त्विति यथास्थितम् अस्तु ॥ तन्वम् त- नूम् अस्थिरूपां यथापरु । परुशब्दः पर्ववाची । यथापर्व जीवदवस्था- यां येन संनिवेशेन अस्थीनि संहितानि तं निवेशम् अनतिक्रम्य । प- दार्थानतिवृत्तौ अव्ययीभावः । सं भरस्व संहरस्व । “ह्र- ग्रहोर्भ:" । संधेहि ॥ अहमपि कुले ज्येष्ठः ते तव गात्राणि अङ्गानि अस्थिरूपाणि ब्रह्मणा मन्त्रेण कल्पयामि पूर्वस्थितपर्वानतिक्रमेण समर्थानि संहितानि करोमि ॥ तृतीया ॥ पर्णो राजापिधानं चरूणामूर्जो बलं सह ओजो न आगन् । आयुर्जीवेभ्यो वि दधद् दीर्घायुत्वार्य शतशारदाय ॥ ५३ ॥ पर्णः । राजा । अपिऽधानम् । चरूणाम् । ऊर्जः । बलम् । सहः । ओजः । नः । आ। अगन्। आयुः । जीवेभ्यः । विडदधत् । दीर्घायुऽत्वार्य । शतऽशारदाय ॥ ५३॥ चरूणाम् “अपूपवान् क्षीरवान्" [१६] इति मन्त्रोक्तद्रव्ययुतानां नवा- नां चरूणां पिधानम् आच्छादनभूतः । “वष्टि भागुरिरल्लोपम् अ- वाप्योरुपसर्गयोः” इति अपिशब्दस्य आदिवर्णलोपः। पर्णः पला- शवृक्षः पलाशो राजा यज्ञियत्वात् सर्ववृक्षाणाम् अधिपतिः नः अस्मा- कम् ऊर्जः ऊर्जयति बलवन्तं करोतीति ऊर्जः अन्नरसः। उर्ज बलप्रा- णने । अस्मात् ण्यन्तात् पचाद्यच् । बलम् शारीरं बाह्यं च मनु- ष्यसंपत्त्यादिलक्षणं द्विविधं बलं सहः शत्रुधर्षणसामर्थम् । स- हतेरभिभवार्थाद् असुन् ४ । ओजः तेजः शरीरकान्तिः सर्वधा- १ जीवेभ्यो विदध. D. जीवेभ्यो विदध chungal 10 जीवेभ्यो विध. We with c K RCe. The reading of Vant Dris lugically lax:ttey. But cKRCP are support- ifl by Siyana tul w. therefore follow them. २ 50 our adu-MSS. ३P विदधात् ।