पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू० ४.] ५४४ अष्टादशं काण्डम् । २२५ तदा रोह पुरुष मेध्यो भवन् प्रति त्वा जानन्तु पितरः परैतम् ॥५१॥ इदम् । पितृभ्यः । प्र। भरामि । बर्हिः । जीवम् । देवेभ्यः । उतडतरम्। स्तृणामि। तत् । आ। रोह । पुरुष । मेध्यः । भवन् । प्रति । त्वा । जानन्तु । पितरः । पराऽइतम् ॥५१॥ पितृभ्यः पित्र1र्थम् इदं बर्हिः प्र भरामि प्रहरामि आस्तृणामि । त- स्मिन्नास्तीर्णे बर्हिषि देवेभ्यः देवार्थं जीवन् जीवनवान् अहं संस्कर्ता उत्तरम उपरितनं बर्हिः स्तृणामि । ४ स्तृञ् [आच्छादने । हे पुरुष त्वं मेध्यः ।] मेधो यज्ञः पितृमेधाख्यः । तदर्हो भवन् तत् बर्हिः आ रोह आतिष्ठ । भवतेः शत्रन्तं पदं भवन्निति । पि- तरः पूर्वजाः परेतम् इतः पराङ्मुखं गतं त्वा वां प्रति जानन्तु अनु- जानन्तु । बर्हिरारोहणाय अस्मदीयोयं पितृलोकं प्राप्नोत्विति स्मरन्तु इ- त्यर्थः । “संप्रतिभ्याम् अनाध्याने" इति आध्यानपर्युदासाद् आत्मनेपदाभावः ॥ द्वितीया ॥ एदं बर्हिरसदो मेध्योभूः प्रति त्वा जानन्तु पितरः परेतम् । यथापरु तन्वं१ सं भरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥ ५२ ॥ आ। इदम् । बर्हिः । असदः । मेध्यः । अभूः । प्रति । त्वा । जानन्तु । पितरः । पराऽइतम् । यथाऽपरुं। तन्वम्।सम् । भरस्व । गात्राणि। ते। ब्रह्मणा । कल्पयामि ॥५२॥ हे प्रेत त्वम् इदं चितावास्तीर्ण बर्हिः आ असदः आरुक्षः। पूस- १R तया for तदा. RKCR मेध्यो. D मेध्यो changeel to मेध्यो. We with v pe. ३PP पुरुष । मेध्यः । CP पुरुऽमेध्यः . Our Samhitta authoritics and Siyana's test : पुरुषमेध्यो, and not पुरुमध्यो. ४ ABC K RV DCP पुरु. PP पुरु. We tritli Sayana. See IX.5.4. ५ CP असतः।. ६ CP परि।. PP प्रति । 18 पियर्थम्.