पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२४ अथर्वसंहिताभाष्ये ___ “इदं पितृभ्यः” इति [५१] प्रथमायाः प्रथमार्धेन चितिकाष्ठानाम् उपरि दर्भान् स्तृणाति । उत्तरार्धेन आस्तीर्णदर्भाया चितौ प्रेतम् उ. त्तानशयं कुर्यात् ॥ तथा श्मशानचयनकर्मणि "इदं पितृभ्यः” इत्यर्धर्चेन गर्ते दर्भान् स्तृ- णीयात् । “तदा रोह" इत्युत्तरार्धेन अस्थीनि तस्मिन् गर्ते निदध्यात् ॥ "एदं बर्हिः” इति [५२] ऋचा कुले ज्येष्ठः अस्थीनि यथापरु सं- चिनुयात् ॥ “पर्णो राजा” इति [५३] ऋचा “अपूपवान् क्षीरवान्" इति म- न्त्रोक्तान् प्रतिदिशं मध्ये च स्थापितान् नव चरून् शतच्छिद्रसहस्रच्छि- द्रादिपात्राणि च मध्यपलाशपत्रैराच्छादयेत् ॥ “ऊर्जों भागः” इति [५४] ऋचा चरून् पात्राणि च पाषाणैरिष्ट- काभिर्वा पिदध्यात् ॥ “यथा यमाय” इति [५५] ऋचा शलाकाभिरिष्टकाभिर्वा प्रसव्यं चितं श्मशानप्रदेशं कुट्टयेयुः । सर्वत्र कर्तुरेव मन्त्रवचनम् । तत्र पितृगृ. हम् [उन्नतं] कुर्यात् “उन्नतं स्वर्गकामस्य" [इति ] श्रुतेः ॥ __"इदं हिरण्यम्” इति [५६] प्रथमार्धेन प्रेतहस्ते विद्यमानं हिर- ण्यम् आज्येन अभिधार्य ज्येष्ठपुत्रेण अग्नावादीपयेत् । “स्वर्गं यतः" इ- त्युत्तरार्धेन पुत्रः प्रेतहस्तं मार्जयेत् ॥ "ये च जीवाः” इति [५७] ऋचा सर्पिर्मधुसहितं चरुद्वयम् अ- भिमन्त्य अस्थिसमीपे निदध्यात् ॥ पिण्डपितृयज्ञे अनया बर्हिषि पित्रर्थं दतान् पिण्डान् घृतेन अभि- धारयेत् ॥ “वृषा मतीनाम्" [१६] इत्यादीनां तिसृणां पितृमेध एव काण्डोक्तो विनियोगोनुसंधेयः ॥ तत्र प्रथमा ॥ इदं पितृभ्यः प्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि । AS BC KR V Dr. Sayant's accent ought to he °जीव as he reals जीवन. 18 यज्ञत्यनया.