पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰ ४. सू०४.] ५४४ अष्टादशं काण्डम् । २२३ षये पितॄन् उद्दिश्य दातुः अग्निं प्रदातिः हविः प्रदातुर्वा मम भोजनौ भोजयितारौ पालयितारौ भवतम् इति ॥ दशमी॥ एयमगन् दक्षिणा भद्रतो नो अनेन दत्ता सुदुघा वयोधाः । यौवने जीवानुपपृञ्चती जरा पितृभ्य उपसंपराणयादिमान् ॥५०॥ (३४) आ। इयम् । अगन् । दक्षिणा । भद्रतः । नः । अनेन । दत्ता । सुऽदुघा । वयऽधाः। यौवने । जीवान् । उपऽपञ्चती । जरा । पितृऽभ्यः । उपऽसंपरानयात् । इ- मान् ॥ ५० ॥ (२४) इयं दक्षिणा गोरूपा नः अस्मान् संस्कर्तृन् भद्रतः कल्याणात् प्रदे- शाद् आ अगन् आगच्छति । गमेर्लुङि “मन्त्रे घस” इति च्लर्लुक् । “हल्ड्या" इत्यादिना तिपो लोपे “मो नो धातोः” इति नावम् । अनेन प्रेतेन दत्ता वितीर्णा सुदुधा सुष्ठु दोग्ध्री वयो- धाः । वय इति अन्ननाम । अन्नस्य क्षीर1लक्षणस्य विधात्री प्रदात्री गोरूपा दक्षिणा यौवने । युवत्या भावो यौवनम् । “हायनान्तयु- वादिभ्योण्” इति अण् प्रत्ययः । यौवनं नाम शरीरस्य मध्या- वस्था तस्याम् । लुप्तोपमम् एतत् । यौवन इव वार्धके जरा उपपृ- ञ्चती [आत्मानं जरया] संपर्चयन्ती सं2योजयन्ती । अपिशब्दः अध्या- हार्यः । [संयोजयन्त्यपि] यौवने वर्तमानेव जी3वात् जीवतु । किं च गो- रूपा दक्षिणा पितृभ्यः पूर्वजेभ्यः । तादर्थ्ये चतुर्थी । इ- मान् अधुना संस्क्रियमाणान् पितृन् उप समीपं संपराणयात् सम्यक् पराङ्मुखं नयतु पूर्वजान् प्रापयतु । उभयत्र लेटि आडागमः ॥ [इति ] चतुर्थेनुवाके पञ्चमं सूक्तम् ॥ १BV De यौवने. kR यौवने. We witli AC. २.चन्ती. ३ BV उपसंपरा. K उपसंपरा. De उपसंपरा changeal to उपसंपरा . We with AC RCr. 19 °लवणस्य. 28 संवर्चयंती. Bhityamit's text also las : जीवादुपपृंचती.